Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 359
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३१३॥ | अष्टमं पर्व | नवमः | सर्गः | श्रीअरिष्टनेमिजिनचरितम् । आत्मनोऽननुरुपाहं ज्ञाता नेमे त्वया यदि । तत्प्रपद्य विवाहं मे जनितः किं मनोरथः ॥२१६ ।। जनयित्वा च किं भग्नः स्वामिन्मम मनोरथ: । महतां प्रतिपन्नं हि यावज्जीवमपि स्थिरम् ।। २१७ ।। प्रतिपन्नाद्भवन्तोऽपि चलन्ति यदि तत्प्रभो । मर्यादा लंघयिष्यन्ति निश्चितं जलराशयः ।। २१८ ॥ यद्वा तवापि नो दोषो दोषो मत्कर्मणामयम् । भवत्पाणिगृहीतात्वं वचसैव यदासदम् ।। २१९ ।। चारु मातृगृहं दिव्यमंडपो रत्नवेदिका । विवाहायावयोरन्यदप्येतदभवन्मुधा ।। २२० ॥ धवलैर्गीयते यत्तन्न सर्व सत्यमीशी । सत्योक्तिस्त्वं हि मे भर्ता गीतोऽस्यादौ न चाभवः ।। २२१ ।। किं युग्मिनां विघटनमकार्ष पूर्वजन्मनि । पाणिस्पर्शसुखमपि यत्पत्यु हमाप्नवम् ।। २२२ ।। विलपन्तीति सा जघ्ने हस्ताब्जाभ्यामुरःस्थलम् । हारं च त्रोटयामास स्फोटयामास कंकणे ॥ २२३ ।। सख्यस्तामूचिरे सैवं विषादं सखि मा कृथाः । कस्तेन सह संबन्धः कार्य वा तेन किं तव ।। २२४ ।। निःस्नेहो निःस्पृहो लोकव्यवहारपराङ्मुखः । गृहवासात् सदा भीरुर्वसतेर्वन्यजीववत् ।। २२५ ।। निर्दाक्षिण्यो निष्ठुरश्च स्वैरी वैरी च नन्वयम् । यातश्चेद्यातु तन्नेमिः साधु ज्ञातोऽधुनैव हि ॥ २२६ ॥ यद्यसौ परिणीय त्वां भवेदेवं हि निर्ममः । कूपे प्रक्षिप्य ते वेर्तिकर्तनं स्यात्तदा कृतम् ॥ २२७ ।। अन्येऽपि यदुकुमारा भूयांसः सन्ति सद्गुणाः । प्रद्युम्नशांबप्रमुखास्तेष्वस्तु रुचितो वरः ॥२२८ ॥ १ दंपतीनाम् । २ रज्जुकर्तनम् । राजीमतिविलापः। ॥३१३ ॥

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420