Book Title: Trishashti Shakala Purush Charitam Part 5
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 350
________________ त्रिषष्टिशलाकापुरुषचरिते ॥३०४॥ अष्टमं पर्व नवमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । त्रैलोक्ये तेऽप्रतिरुपं रुपं लावण्यपावितम् । यौवनं च नवोद्भेदं सत्येवं किमियं स्थितिः ।। १०० ॥ पितरौ भ्रातरश्चैते भ्रातुर्जाया वयं च ते । याचामहे विवाहाय कुरुष्वैषां समीहितम् ।। १०१ ।। वंडमात्र इवैकांगो विना पत्नीपरिग्रहम् । कालं कियन्तं नेतासि विमृश स्वयमप्यहो ।। १०२ ।। किमज्ञो नीरसो वाऽसि क्लीबो वासीति शंस नः । स्त्रीभोगेन विनासि त्वं कुमारारण्यपुष्पवत् ।। १०३ ।। यथा प्रावर्तयत्तीर्थं प्रथमं वृषभध्वजः । तथा स एव विवाहमंगलान्यप्यदर्शयत् ॥ १०४ ॥ समये प्रतिपद्येथा ब्रह्मापि हि यथारुचि । गार्हस्थ्ये नोचितं ब्रह्म मंत्रोद्गार इवाशुचौ ॥१०५ ॥ अथावदज्जांबवती त्वद्वंशे मुनिसुव्रतः । कृतोद्वाहो जातसूनुर्जज्ञे तीर्थकरः प्रभुः ।।१०६ ।। ततः परस्तादर्वाक् च श्रूयन्ते जिनशासने । कृतोद्वाहाश्च मुक्ताश्च वेत्सि त्वमपि तन्ननु ।। १०७ ॥ मुमुक्षुर्नूतनोऽसि त्वं मुक्तानामपि वर्त्म यः । विहाय जन्मतोऽप्येवं यदभूः स्त्रीपराङ्मुखः ।। १०८ ॥ कृतप्रणयकोपोचे भामा सखि वृथैव किम् । अमुं वदसि साम्ना त्वं सामसाध्यो न खल्वयम् ।। १०९ ।। उक्तः सानुनयं पित्रा भ्रात्रा च ज्यायसाप्ययम् । अपरैश्च विवाहार्थे मेने न खलु तानपि ॥ ११० ॥ अस्माभिरेष संभूय तत्सर्वाभिर्निरुध्यताम् । न मंस्यतेऽस्मद्वचश्चेन्मोक्तव्यस्तन्न सर्वथा ।। १११ ॥ अथोचिरे लक्ष्मणाद्या आराध्यो देवरो ह्यसौ । सकोपमिव नो वाच्यमुपायोऽस्य प्रसादनम् ।। ११२ ॥ १ वंडः स्त्रीरहितः भाषायां 'वांढो' इति ख्यातः । कृष्णान्तः पुरेण नेमिकुमारस्य विवाहाय प्रेरणम् । ॥३०४ ।।

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420