Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
२६४
तिथ्यर्क:
विधिना क्रियते चेत्, मध्याह्वव्यापिन्यां क्षयाहतिथैौ कार्यम् । यदि पार्वणविधिना, तदाऽपराह्नव्यापिन्यां कार्यम्,
“आमश्राद्धं तु पूर्वाह्णे ऽपराह्न े पार्वणं भवेत् । एकोद्दिष्टं तु मध्याह्न प्रातर्दृद्धिनिमित्तकम् ॥” इति शातातपवचनात् ।
दिनद्वयेऽपराह्वव्यापित्वे माधवीये बौधायनो निर्णयमाह - "अपराह्नद्वयव्यापिन्यतीतस्य यदा तिथिः ।
क्षये पूर्वा तु कर्त्तव्या वृद्धौ कार्य तथेोत्तरा ॥” इति । अत्र माधवादयस्तु — उत्तरतिथिगतावेव वृद्धिक्षयों ग्राह्यौ, न ग्राह्यतिथिगतावित्याहुः । श्रीमातामहगुरवस्तु परमवृद्ध्यनन्तरमाकस्मिकक्ष यस्य ज्योतिःशास्त्रमर्यादया सम्भवान् पूर्वतिथ्यपेक्षया ग्राह्यतिथिगतावेव वृद्धिक्षयों ग्राह्याविति तत्त्वमित्याहुः | दिनद्वये तदव्याप्तौ तु पूर्वव ग्राह्या,
"द्वयव्यापिनी चेत् स्यान्मृताहस्य तु या तिथिः । पूर्वविद्धैव कर्त्तव्या त्रिमुहूर्त्ता भवेद् यदि ||" इति मनुवाक्यात् ।
"द्वहेऽप्यव्यापिनी चेत् स्यान्मृताहस्य तु या तिथिः । पूर्वस्यां निर्वपेत् पिण्डमित्याङ्गिरसभाषितम् ॥” इति समन्तुवाक्याच्च । “साम्ये तु परैव, देवस्वामिवचनात् "इति माधवः । अत्राप्येकरदेशादिव्याप्तौ दर्शनिर्णयवन्निर्णय बोध्यः । अमावास्यातु वाहीतिवचनापदिष्टौ वृद्धिसयौ ग्राह्यतिथिगतावेवा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340