Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 310
________________ २७४ तिथ्यर्कविषयानुक्रमणिका मासद्वयेऽप्ययं पक्षो रम्भाव्रतविनिर्णयः । विशालाक्ष्यर्चनविधिः कज्जलीनिर्णयस्ततः ॥ ३० ॥ भाद्रशुक्लतृतीयाया निर्णयो ललिताविधिः । अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः ।। ३१ ।। चतुर्थीनिर्णयश्चाथ साधारण्येन कीर्तितः । चैत्रशुक्लचतुर्थ्यान्तु गणेशार्चनमीरितम् ।। ३२ ॥ ज्येष्ठशुक्लचतुर्थ्यान्तु पार्वतीपूजनं स्मृतम् । सनिर्णयात्र कथिता संकष्टाख्या चतुर्थिका ॥ ३३ ॥ बहुलावतकालस्य निर्णयः संप्रदर्शितः । भाद्रशुक्लचतुर्थ्यास्तु विस्तरेण विनिर्णयः ।। ३४ ॥ चन्द्रस्य दर्शने दोषो दोषशान्तिस्तवो मनः । तिथेरस्याश्च भौमादियोगपाशस्त्यमीरितम् ॥ ३५ ॥ संज्ञान्तरं शिवाख्येति मार्गशुक्लचतुर्थिका ।। एकभक्तस्वरूपं तु सनिर्णयमुदाहृतम् ॥ ३६ ॥ नक्तस्वरूपं तत्कालः सन्ध्याशब्दार्थ एव च । सौरनक्तं यतेनक्तं विधवानक्तमेव च ॥ ३७ ॥ नक्तव्रतियमाः प्रोक्ता अयाचितविनिर्णयः । तत्फलं तत्र कालस्य निर्णयो निखिलः कृतः ॥ ३८ ॥ माघकृष्णचतुर्थ्यान्तु संकष्टाख्यं व्रतं स्मृतम् । माघशुक्लचतुर्थ्यास्तु तिलसंज्ञा प्रकीर्तिता ॥ ३९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340