Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
२८२
तिथ्यर्कविषयानुक्रमणिका नृणां नीराजनविधिर्टादशीषु च पञ्चसु । कार्तिकद्वादशीकृत्य देवतोत्थापनादिकम् ॥ ११० ॥ व्रतार्पणविधिस्तत्र तिलद्वादशिकाविधिः । द्वादशीषु विशेषेण व्रतार्पणविधिः स्मृतः ।। १११ ॥ तुलसीमिश्रनैवेद्यभक्षणस्य फलं स्मृतम् । द्वादशीवय॑वस्तूनि संख्यातान्यामिषाणि च ।। ११२ ॥ ऐक्षवं ताम्रपात्रस्थं निषिद्धमिति कीर्तितम् । अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः ।। ११३ ॥ त्रयोदशीनिर्णयस्तु सामान्येन प्रकीर्तितः । पक्षप्रदोषो निर्णीतो वारभेदेन तत्फलम् ॥ ११४ ॥ अध्यापनाध्ययनयोः प्रदोषस्य विनिर्णयः । चैत्रशुक्लत्रयोदश्यामनङ्गपरिपूजनम् ।। ११५ ।। भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं स्मृतम् । ऊर्जकृष्णत्रयोदश्यां यमदीपविधिः स्मृतः ॥ ११६ ।। चैत्रकृष्णत्रयोदश्यां वारुणीयोगकीर्तनम् । वरुणप्रतिमादानं विधिः सर्वोपि कीर्तितः ॥ ११७ ।। अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः । शुक्लकृष्णचतुर्दश्यौ विनिर्णीते ततः परम् ।। ११८ ॥ मधेोः शुक्लचतुर्दश्या निर्णयोऽनङ्गपूजनम् । श्रीनृसिंहजयन्त्यास्तु निर्णयः कर्तृ निर्णयः ॥ ११९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340