Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
२८४
तिथ्यर्कविषयानुक्रमणिका दानं कृष्णाजिनस्याथ कुम्भदानं तथैव च । ज्येष्ठस्य पूर्णिमायां तु सावित्रीपूजनं स्मृतम् ॥ १३० ।। तिलछत्रादिदानानि कीर्त्तितानि विशेषतः । कोकिलाव्रतकालश्च व्यासपूजाविनिर्णयः ।। १३१ ।। विष्णोः शयनकालश्च देशकालविभेदतः । श्रावणी पौर्णमासी तु निर्णीता च ततः परम् ।। १३.२ ।। उपाकर्माऽपि तत्रोक्तं विस्तरेण ततः परम् । उत्सर्जनं च कथितं श्रवणाकर्मनिर्णयः ॥ १३३ ॥ सर्वेषामिह वर्णानां रक्षाबन्धविधिस्तथा । भद्रायां तनिषेधस्तु हयग्रीवसुरार्चनम् ॥ १३४ ॥ नान्दीमुखानां प्रत्यब्दं भाद्रयां श्राद्धविधिस्तथा । आश्विन्यामाश्विनीकर्म कोजागरविधिस्तथा ॥ १३५ ॥ कार्तिक्यां कार्तिकेयस्य दर्शनं त्रिपुरोत्सवः । क्षीरसागरदानं च दृषोत्सर्गविधिस्तथा ॥ १३६ ॥ अथार्जवतिनः सम्यगुद्यापनविधिः स्मृतः । मागशीर्ष्या पौर्णमास्यामुक्तं प्रत्यवरोहणम् ॥ १३७ ।। पौषीकृत्यं ततः प्रोक्तं माघीकृत्यं सविस्तरम् । स्नानाद्यापनकर्माणि होलिकानिर्णयस्ततः॥ १३८ ।। भद्रापुच्छं विनिर्णीतं होलिकाकृत्यमेव च । मलमासनिषेधश्च दोलोत्सव उदाहृतः ॥ १३९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340