Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 309
________________ २७३ तिथ्यर्कविषयानुक्रमणिका श्वपचस्पर्शनं स्नानं होलिकाभूतिवन्दनम् । तन्मन्त्रश्चूतकुसुमपाशनं मन्त्रसंयुतम् ।। २० ॥ पूर्वविद्धा तिथिह्येत्युक्तं वेध उदाहृतः । सायं वेधस्ततः प्रोक्तोऽभ्यङ्गो नित्य इतीरितम् ॥ २१ ॥ अथ सिद्धविरुद्धादियोगिनीनिर्णयस्ततः । द्वितीयानिर्णयः प्रोक्तः साधारण्येन कृत्स्नशः ॥ २२ ॥ चैत्रशुक्लद्वितीयायाममापूजाऽग्निपूजनम् । पोक्ता तिथिः सेोपपदा तत्राऽध्ययनवर्जनम् ॥ २३ ॥ रामयात्रोत्सवस्याथ कालः सर्वोऽपि कीर्त्तितः । बृहत्तपावतं चोक्तमशुन्याख्यव्रतं तथा ॥ २४ ॥ यमद्वितीया निर्णीता तत्कृत्यं चापि विस्तरात् । चैत्रकृष्णद्वितीयायामनङ्गोत्सव ईरितः ॥ २५ ॥ उत्सवे निर्णयः प्रोक्तस्तिथेः सिद्धविरुद्धकः । योगिनोनिर्णयः प्रोक्तस्तृतीयानिर्णयस्ततः ॥ २६ ॥ साधारणः समुदितस्तता दोलोत्सवः स्मृतः । गौरीपूजनकालस्तु सनिर्णय उदाहृतः ॥ २७ ॥ सौभाग्यव्रतकालोऽथ जयन्ती मत्स्यसंज्ञिका । तृतीयाऽक्षयसंज्ञा तु सनिर्णयमुदाहृता ॥ २८ ॥ तत्कृत्यञ्चाऽपि सम्प्रोक्तं रेणुकासूनुसंभवः । तत्कालनिर्णयश्चाऽथ मलमासे युगादयः ॥ २९ ॥ ३५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340