Book Title: Tirthyak
Author(s): Diwakar
Publisher: Achyut Granthmala
View full book text
________________
श्रीवैजनाथरचिताः
तिथ्यर्कविषयानुक्रमणिकाश्लोकाः
दिवाकरतनूजेन वैजनाथेन धीमता । खबाणसप्तभूयुक्त वर्षे माधवसंज्ञके ॥
१ ॥
मासि तातकृतग्रन्थेऽनुक्रमः संप्रदर्श्यते । विदुषां सुखलब्ध्यर्थमनया श्लोकमालया ॥ २ ॥ मङ्गलाचरणं पूर्व मातृवंश्यानुवर्णनम् । स्वस्य वंश्यानुचरितं ततेा विधिनिरूपणम् ॥ ३॥ तिथिरूपं ततः प्रोक्तं तद्वैविध्यमुदाहृतम् । लक्षणं निर्णयस्योक्तं प्रतिपन्निर्णयस्ततः ॥ ४॥ नानो निरुक्तिस्तस्यास्तु शुक्ले पूर्वापरेऽपरा । उपवासे तु पूर्वैव पक्षद्वयगतापि हि ॥ ५ ॥ सङ्कल्पः प्रातरेवात्र पूर्वविद्धास्वपीरितः । तिथ्यन्ते पारणं प्रोक्तं सापवादं परेऽहनि ॥ ६ ॥ एकभक्तादिषु तथा गौणकालेऽप्युपेषणम् । ततः कर्मोपयुक्तत्वात्तिथिदेवप्रपूजनम् ॥ ७ ॥ ततेा मन्दादिसंज्ञोक्ता तिथिवर्णानुकीर्त्तनम् । चैत्रशुक्लप्रतिपदा निर्णयेो ब्रह्मपूजनम् ॥ ८ ॥ शकादिश्रवर्ण तत्र निम्बप्राशनमेव च । वासन्तनवरात्रं च प्रपादानं तथैव च ॥ ९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340