Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-१०, ११४]
दशमोऽधिकारः कायोत्सर्ग सदा स्वामी करोति स्म स्वशक्तितः । कायेऽति निस्पृहो भूत्वा कर्मा हानये बुधः ॥१०२॥ षडावश्यकमित्यत्र मुनीनां शर्मराशिदम् । आवास वा शिवप्राप्त्य साधयामास योगिराट् ।।१०३।। कौशेयकं च कार्पासं रोमजं चर्मजं तथा । वाल्कलं च पटं नित्यं पञ्चधा त्यजति स्म सः ।।१०४॥ जातरूपं जिनेन्द्राणां परं निर्वाणसाधनम् । रक्षणं ब्रह्मचर्यस्य मत्वा नग्नत्वमाश्रितः ॥१०५।। अस्नानं संविधत्ते स्म दयालू रागहानये । क्षितौ शयनमत्युच्चैः स भेजे धृतिकारणम् ॥१०६॥ दन्तानां धावनं नैव करोति स्म महामुनिः । प्रत्याख्यानप्ररक्षार्थ मुनिमार्गस्य तत्त्व वित् ॥१०॥ मुक्तिपानप्रवृत्तश्च मर्यादाप्रतिपालकम् । ऊर्वीभूय यथायोग्यमेकवारं स्वयुक्तितः ॥१८॥ संतोषभावमाश्रित्य श्रावकाणां ग्रहे शुभम् । आहारं स्वतपःसिद्ध्यै करोति स्म महामुनिः ॥१०९।। कृतकारितनिर्मुक्तं पवित्रं दोषवर्जितम् । अन्तरं पादयोः कृत्वा चतुरङ्गुलमात्रकम् ॥११०।। सूर्योदये घटीषटकमपराह्न तथा त्यजन् । तन्मध्ये प्राशुकाहारं स लाति स्म मुनिः शुभम् ॥१११॥ एतान् मूलगुणानुचैर्मुनीनां मोक्षसाधकान् । दनेऽष्टाविंशतिं शुद्धान धर्मध्यानपरायणः॥११२॥ तथा श्रीमजिनेन्द्रोक्तं दशधा धर्ममुत्तमम् । उत्तमक्षान्तिसन्मुख्यं स प्रीत्या प्रत्यपालयत् ॥११३॥ गुप्तित्रयपवित्रात्मा सर्वशीलप्रभेदभाक् । द्वाविंशतिप्रमाणोक्तपरीषहसहिष्णुकः ॥११४॥
For Private And Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180