Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 135
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११० [ १२, १२ सुदर्शनचरितम् वेद्यं चान्यतरच्चैवं द्वासप्ततिमिति प्रभुः । उपान्त्यसमये तत्र समुच्छिन्नक्रियाख्यतः ॥१॥ सुध्यानात्प्रकृतीः क्षिप्त्वा तथासौ चरमक्षणे । आदेयत्वं च मानुष्यगतिगत्यानुपूर्विके ॥१३॥ स पञ्चेन्द्रियजातिं च यशःकीर्तिमनुत्तरान् । पर्याप्तिं च त्रसत्वं च बादरत्वं च यन्मतम् ॥१४॥ सुभगत्वं मनुष्यायुरुच्चैर्गोत्रं च वेद्यकम् । श्रीमत्तीर्थकरत्वं च प्रकृतीः स त्रयोदश ।।१५।। हत्वैताः समयेनाशु संप्राप्तो मोक्षमक्षयम् । सिद्धो बुद्धो निराबाधो निष्क्रियः कर्मवर्जितः॥१६॥ किंचिन्न परित्यक्तकायाकारोऽप्यकायकः। त्रैलोक्यशिखरारूढस्तनुवाते स्थिरं स्थितः ॥१७॥ प्रसिद्धाष्टगुणैर्युक्तः सम्यक्त्वाद्यैरनुत्तरैः । कर्मबन्धननिर्मुक्तश्चोर्ध्वगामी स्वभावतः ॥१८॥ एरण्डबीजवद्वह्निशिखावच्च तदा द्रुतम् । निर्मलालाबुवत् स्वामी गत्वा त्रैलोक्यमस्तके ।।१९।। वृद्धिहासविनिर्मुक्तस्तनुवाते प्रतिष्ठितः। अनन्तसुखसंतृप्तः शुद्धचैतन्यलक्षणः ॥२०॥ काले कल्पशते चापि विक्रियारहितोऽचलः । अभावाद्धर्मद्रव्यस्य नैव याति ततः परम् ।।२।। त्रिकालोत्पन्नदेवेन्द्रनागेन्द्रखचरेन्द्रजम् । भोगभूमिमनुष्याणां यत्सुखं चक्रवर्तिनाम् ।।२२।। अनन्तगुणितं तस्मात्सुखं भुङ्क्ते च नित्यशः । समयं समयं स्वामी योऽसौ मे शर्म संक्रियात् ॥२३।। अन्ये सर्वेऽपि ये सिद्धाः प्रबुद्धा गुणविग्रहाः । कालत्रयसमुत्पन्नाः पूजिता वन्दिताः सदा ॥२४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180