Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 137
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ सुदर्शनचरितम् [१२, ३८सुदर्शनजिनस्योच्चैश्चरित्रं पुण्यकारणम् । पठन्ति पाठयन्त्यत्र लेखयन्ति लिखन्ति ये ॥३८॥ ये शृण्वन्ति महाभव्या भावयन्ति मुहुर्महः । ते लभन्ते महासौख्यं देवदेवेन्द्रसंस्तुतम् ।।३९।। श्रीगौतमगणीन्द्रेण प्रोक्तमेतन्निशम्य च । सच्चरित्रं तमानम्य संतुष्टः श्रेणिकप्रभुः ॥४०॥ अन्यभूरिजनैः सार्धं परमानन्दनिर्भरैः। प्राप्तो राजगृहं रम्यं स सुधीर्भावितीर्थकृत् ॥४१॥ गन्धारपुर्यां जिननाथगेहे छत्रध्वजाचैः परिशोभतेऽत्र । कृतं चरित्रं स्वपरोपकारकृते पवित्रं हि सुदर्शनस्य ॥४२॥ नन्दत्विदं सारचरित्ररत्नं भव्यैर्जनेर्भावितमुत्तमं हि । सत्केवलज्ञानिसुदर्शनस्य संसारसिन्धौ वरयानपात्रम् ॥४३ स श्रीकेवललोचनो जिनपतिः सर्वेन्द्रवृन्दार्चितो भव्याम्भोरुहभास्करो गुणनिधिर्मिथ्यातमोध्वंसकृत् । सच्छीलाम्बुधिचन्द्रमाः शुचितरो दोषौघमुक्तेः सदा नाम्ना सारसुदर्शनोऽत्र सततं कुर्यात् सतां मङ्गलम् ।।४४॥ अर्ह सिद्धगणीन्द्रपाठकमुनिश्रीसाधवो नित्यशः पश्चैते परमेष्ठिनः शुभतराः संसारनिस्तारकाः । कुर्वन्त्वत्र सुखं विनाशविमुखं भव्यात्मनां निर्मलं यन्मन्त्रोऽपि करोति वाञ्छितसुखं कीर्ति प्रमोदं जयम् ॥४५॥ श्रीसारदासारजिनेन्द्रवक्त्रात्समुद्भवा सर्वजनैकचक्षुः । कृत्वा क्षमा मेऽत्र कवित्वलेशे मातेव बालस्य सुखं करोतु ॥४६।। श्रीमूलसङघे वरभारतीये गच्छे बलात्कारगणेऽतिरम्ये । श्रीकुन्दकुन्दाख्यमुनीन्द्रवंशे जातः प्रभाचन्द्रमहामुनीन्द्रः ॥४७॥ पट्टे तदीये मुनिपद्मनन्दी भट्टारको भव्यसरोजभानुः । जातो जगत्त्रयहितोगुणरत्नसिन्धुः कुर्यात्सतां सारसुखं यतीशः।४८१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180