________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११२
सुदर्शनचरितम्
[१२, ३८सुदर्शनजिनस्योच्चैश्चरित्रं पुण्यकारणम् । पठन्ति पाठयन्त्यत्र लेखयन्ति लिखन्ति ये ॥३८॥ ये शृण्वन्ति महाभव्या भावयन्ति मुहुर्महः । ते लभन्ते महासौख्यं देवदेवेन्द्रसंस्तुतम् ।।३९।। श्रीगौतमगणीन्द्रेण प्रोक्तमेतन्निशम्य च । सच्चरित्रं तमानम्य संतुष्टः श्रेणिकप्रभुः ॥४०॥ अन्यभूरिजनैः सार्धं परमानन्दनिर्भरैः। प्राप्तो राजगृहं रम्यं स सुधीर्भावितीर्थकृत् ॥४१॥ गन्धारपुर्यां जिननाथगेहे छत्रध्वजाचैः परिशोभतेऽत्र । कृतं चरित्रं स्वपरोपकारकृते पवित्रं हि सुदर्शनस्य ॥४२॥ नन्दत्विदं सारचरित्ररत्नं भव्यैर्जनेर्भावितमुत्तमं हि । सत्केवलज्ञानिसुदर्शनस्य संसारसिन्धौ वरयानपात्रम् ॥४३ स श्रीकेवललोचनो जिनपतिः सर्वेन्द्रवृन्दार्चितो भव्याम्भोरुहभास्करो गुणनिधिर्मिथ्यातमोध्वंसकृत् । सच्छीलाम्बुधिचन्द्रमाः शुचितरो दोषौघमुक्तेः सदा नाम्ना सारसुदर्शनोऽत्र सततं कुर्यात् सतां मङ्गलम् ।।४४॥ अर्ह सिद्धगणीन्द्रपाठकमुनिश्रीसाधवो नित्यशः
पश्चैते परमेष्ठिनः शुभतराः संसारनिस्तारकाः । कुर्वन्त्वत्र सुखं विनाशविमुखं भव्यात्मनां निर्मलं
यन्मन्त्रोऽपि करोति वाञ्छितसुखं कीर्ति प्रमोदं जयम् ॥४५॥ श्रीसारदासारजिनेन्द्रवक्त्रात्समुद्भवा सर्वजनैकचक्षुः । कृत्वा क्षमा मेऽत्र कवित्वलेशे मातेव बालस्य सुखं करोतु ॥४६।। श्रीमूलसङघे वरभारतीये गच्छे बलात्कारगणेऽतिरम्ये । श्रीकुन्दकुन्दाख्यमुनीन्द्रवंशे जातः प्रभाचन्द्रमहामुनीन्द्रः ॥४७॥ पट्टे तदीये मुनिपद्मनन्दी भट्टारको भव्यसरोजभानुः । जातो जगत्त्रयहितोगुणरत्नसिन्धुः कुर्यात्सतां सारसुखं यतीशः।४८१
For Private And Personal Use Only