________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१११
-१२, ३७]
द्वादशोऽधिकारः शुद्धचैतन्यसद्भावा जन्ममृत्युजरातिगाः । सन्तु ते कर्मणां शान्त्यै समाराध्या जगद्धिताः ॥२५॥ धात्रीवाहनभूपाद्या ये तदा मनयोऽभवन् । ते सर्वे स्वतपोयोगैः प्राप्ताः स्वर्गापवर्गकम् ॥२६॥ यं सुमन्त्रं समाराध्य गोपालोऽपि जगद्धितः । एवं सुदर्शनो जातस्तत्र किं वय॑ते परम् ॥२७॥ अन्येऽपि बहवो भव्याः परमेष्ठिपदान्यलम् । समुच्चार्य जगत्सारं सुखं प्रापुर्निरन्तरम् ॥२८॥ तथा यं मन्त्रमाराध्य परमानन्ददायकम् । कुर्कुरोऽपि सुरो जातः का वार्ता भव्यदेहिनाम् ॥२२॥ तेषां सारफलं लोके कोऽत्र वर्णयितुं क्षमः । इन्द्रो वा धरणेन्द्रो वा विना श्रीमजिनेश्वरैः ॥३०॥ अन्योऽपि यो महाभन्यो मन्त्रमेतं जगद्धितम् । आराधयिष्यति प्रीत्या स भविष्यति सत्सुखी ॥३१॥ तस्माद्भव्यैः सुख दुःखे मन्त्रोऽयं परमेष्ठिनाम् । समाराध्यः सदासारस्वर्गमोक्षककारणम् ॥३२।। निशि प्रातश्च मध्याह्ने सन्ध्यायां वात्र सर्वदा। मन्त्रराजोऽयमाराध्यो भव्यैर्नित्यं सुखप्रदः ।।३३।। अस्य स्मरणमात्रेण मन्त्रराजस्य भूतले । सर्वे विघ्नाः प्रणश्यन्ति यथा भानूदये तमः ॥३४॥ यथा सर्वेषु वृक्षेषु कल्पवृक्षो विराजते । तथायं सर्वमन्त्रेषु मन्त्रराजो विराजते ॥३५।। इत्यादिकं समाकर्ण्य मन्त्रस्यास्य प्रभावकम् । सर्वकार्येषु मन्त्रोऽयं स्मरणीयः सदा बुधैः ॥३३॥ येन सर्वत्र भव्यानां मनोवाञ्छितसंपदाः। धनं धान्यं कुलं रम्यं भवन्त्यत्र सुनिश्चितम् ॥३७॥
For Private And Personal Use Only