Book Title: Sudarshan Charitam
Author(s): Vidyanandi, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 131
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०६ सुदर्शनचरितम् [११, ६४जलगन्धाक्षतैः पुष्पैः पीयूषै रत्नदीपकैः । कृष्णागरुलसळूपैः फलैर्नानाप्रकारकैः ॥१४॥ गीतनृत्यादिवादित्रसहस्रः पापनाशनैः । पूजयित्वा जगत्पूज्यं तं जिनं श्रीसुदर्शनम् ॥६५।। वीतरागं क्षणार्धन लोकालोकप्रदर्शिनम् । स्तुति कर्तुं प्रवृत्तास्ते सारसंपत्तिदायिनीम् ।६६।। जय देव दयासिन्धो जय त्वं केवलेक्षण । जय त्वं सर्वदर्शी च जयानन्तप्रवीर्यभाक् ॥६॥ अनन्तसुखसंतृप्त जय त्वं परमोदयः । जय त्वं त्रिजगत्पूज्य दोषदावाग्नितोयदः ॥६८।। सर्वोपसर्गजेता त्वं सर्वसंदेहनाशकः । भव्यानां भवभीरूणां संसाराम्भोधितारकः ॥६६॥ सद्ब्रह्मचारिणां घोरब्रह्मचारी त्वमेव हि । तपस्विनां महातीव्रतपःकर्ता भवानहो ।।७।। हितोपदेशको देव त्वं भव्यानां कृपापरः । प्रतापिनां प्रतापी त्वं कर्मशत्रुक्षयंकरः ।।७।। बन्धूनां त्वं महाबन्धु व्यसंदोहपालकः। लोकद्वयमहालक्ष्मीकारणं त्वं जगत्प्रभो ॥७२॥ स्वामिस्ते गुणवाराशेः पारं को वा प्रयाति च । किं वयं जडतां प्राप्ताः स्तुति कतु क्षमाः क्षितौ ।।७।। तथापि ते स्तुतिदेव भव्यानां शर्मकारिणी । अस्माकं संभवत्वत्र संसाराम्भोधितारिणी ।।७४।। इत्यादिकं स्तुतिं कृत्वा सर्वे शक्रादयोऽमराः । सर्वराजप्रजोपेता नमस्कृत्य पुनः पुनः ॥७५।। स्वहस्तौ कुडमलीकृत्य धर्मश्रवणमानसाः । स्वामिनस्ते मुखाम्भोजे दत्तनेत्राः सुखं स्थिताः ॥७६।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180