________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०६ सुदर्शनचरितम्
[११, ६४जलगन्धाक्षतैः पुष्पैः पीयूषै रत्नदीपकैः । कृष्णागरुलसळूपैः फलैर्नानाप्रकारकैः ॥१४॥ गीतनृत्यादिवादित्रसहस्रः पापनाशनैः । पूजयित्वा जगत्पूज्यं तं जिनं श्रीसुदर्शनम् ॥६५।। वीतरागं क्षणार्धन लोकालोकप्रदर्शिनम् । स्तुति कर्तुं प्रवृत्तास्ते सारसंपत्तिदायिनीम् ।६६।। जय देव दयासिन्धो जय त्वं केवलेक्षण । जय त्वं सर्वदर्शी च जयानन्तप्रवीर्यभाक् ॥६॥ अनन्तसुखसंतृप्त जय त्वं परमोदयः । जय त्वं त्रिजगत्पूज्य दोषदावाग्नितोयदः ॥६८।। सर्वोपसर्गजेता त्वं सर्वसंदेहनाशकः । भव्यानां भवभीरूणां संसाराम्भोधितारकः ॥६६॥ सद्ब्रह्मचारिणां घोरब्रह्मचारी त्वमेव हि । तपस्विनां महातीव्रतपःकर्ता भवानहो ।।७।। हितोपदेशको देव त्वं भव्यानां कृपापरः । प्रतापिनां प्रतापी त्वं कर्मशत्रुक्षयंकरः ।।७।। बन्धूनां त्वं महाबन्धु व्यसंदोहपालकः। लोकद्वयमहालक्ष्मीकारणं त्वं जगत्प्रभो ॥७२॥ स्वामिस्ते गुणवाराशेः पारं को वा प्रयाति च । किं वयं जडतां प्राप्ताः स्तुति कतु क्षमाः क्षितौ ।।७।। तथापि ते स्तुतिदेव भव्यानां शर्मकारिणी । अस्माकं संभवत्वत्र संसाराम्भोधितारिणी ।।७४।। इत्यादिकं स्तुतिं कृत्वा सर्वे शक्रादयोऽमराः । सर्वराजप्रजोपेता नमस्कृत्य पुनः पुनः ॥७५।। स्वहस्तौ कुडमलीकृत्य धर्मश्रवणमानसाः । स्वामिनस्ते मुखाम्भोजे दत्तनेत्राः सुखं स्थिताः ॥७६।।
For Private And Personal Use Only