________________
Shri Mahavir Jain Aradhana Kendra
-११, ६३ ]
www.kobatirth.org
एकादशोऽधिकारः
Acharya Shri Kailassagarsuri Gyanmandir
समातपचतुर्जातित्रिनिद्राश्वभ्रयुग्मकम् । स्थावरत्वं च सूक्ष्मत्वं पशुद्वयुद्योतकं तथा ॥ ५१॥ अनिवृत्त गुणस्थानपूर्व भागे च षोडश । क्षयं नीत्वा द्वितीये च कषायाष्टकमुच्चकैः ॥५२॥ क्लैव्यं परे ततः स्त्रैणं चतुर्थे भागके ततः । परे हास्यादिषट्कं च षष्ठे पुंवेदकं तथा ॥ ५३॥ क्रोधं मानं च मायां च त्रिभागेषु पृथक पृथक् । षट्त्रिंशत्प्रकृतीर्हत्वा नवमे चैवमादिकम् ॥ २४ ॥ सूक्ष्मसांपरायकेऽपि सूक्ष्मलोभं निहत्य च । क्षीणमोह गुणस्थाने द्वितीयशुक्लमाश्रितः ॥ ५५ ॥ निद्रां सप्रचलां हित्वा चोपान्त्यसमये सुधीः । अन्तिमे समये तत्र चतस्रो दृष्टिघातिकाः ॥ ५६ ॥ पञ्चधा ज्ञानहाः पञ्चप्रकृतीः पञ्च विघ्नकाः । इत्येवं प्रकृतोः प्रोक्ताखिषष्टिं घातिकर्मणाम् ॥५१॥ हत्वाभूत्तत्क्षणे स्वामी केवलज्ञानभास्करः । सयोगाख्यगुणस्थानवर्ती सर्वप्रकाशकः || ५८ ॥ संयत सर्वदर्शी च वीर्यमानन्त्यमाश्रितः । अनन्तसुखसंपन्नः परमानन्ददायकः ||५६|| अन्तकृत्केवली स्वामी वर्द्धमानजिने शिनः । स जीया भव्यजीवानां शर्मणे शरणं जिनः ||६० || केवलज्ञानसंपत्ति मत्वा स्वासनकम्पनात् । सर्वे देवेन्द्रनागेन्द्रचन्द्रार्काद्याः सुरेश्वराः ॥ ६१॥ चतुर्निकाय देवौघैः स्वाङ्गनाभिः समन्विताः । समागत्य महाभक्त्या कृत्वा गन्धकुटीं शुभाम् ॥६२॥ सिंहासनं लसत्कान्ति सच्छत्रचामरद्वयम् । पुष्पवृष्टिं प्रकुर्वन्ति परमानन्दनिर्भराः ||६३ ॥
For Private And Personal Use Only
१०५