Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 511
________________ ४७६ स्तुतितरङ्गिणी : अष्टमस्तरङ्गः अथ श्रीनमिजिनस्तुती।। __ +१ ( द्रुतविलम्बितवृत्तम् ) नमिजिनाय नमः परमात्मने, भवतु योगवशीकृतयोगिने । कुशलशा लिवनस्तनयित्नवे, भुवनभावनभासनभानवे अमलकेवललोचनलोकनाऽ-गलदमगुलमङ्गलमजुलाः ।। अवृजिना वृजिनाऽपहृतिं जिना, ददतु वो महता महताशयाः ।। २ ।। प्रवचनामृतपानमनन्तरं, कुरुत भूपरमाः परमार्हताः । भवति वो यत एव सुनिर्वृत्ति, विधिवताऽऽधिवतापि यदाहतम् ।। ३ ॥ भगवती भवतु श्रुतदेवता, शिवशताय हिताय कृतादरा । विजयसेनगुरुक्रमसेविनां, सुमनसां मनसामभिनन्दना ॥ ४ ॥ __ +२ ( द्रुतविलम्बितवृत्तम् ) * विजयते विजयाङ्गजतीर्थकृत् , परिकरो परम: परमागमः । सुरवरः स्पृहणीयगुणोञ्चयो, विजयसेनगुरोः कमलोदयः ॥ १ ॥ अथ श्रीनेमजिनस्तुतयः। १ ( द्रुतविलम्बितवृत्तम् ) कमलवल्लपनं तव राजते, जिनपते ! भुवनेश ! शिवात्मज ! । मुकुरवद् विमलं क्षणदावशात् , हृदयनायकवत् सुमनोहरम् ॥ १ ॥ सकलपारगताः प्रभवन्तु मे, शिवसुखाय कुकर्मविदारकाः । रुचिरमङ्गलवल्लिवने घनाः, दश तुरङ्गमगौरयशोधराः ॥ २ ॥ १ पू. मुनिराजश्रीकमलविजयेन १६९७ लीपीकृतम् । * इयं स्तुतिः चतुर्शः उच्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564