Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 551
________________ ५१६ स्तुतितरङ्गिणी : दशमस्तरङ्गः + ४ ( उपजातिवृत्तम् ) समुद्र भूपाल कुलप्रदीपः, संसारवार्द्धा विपुलान्तरीपः । श्रीपञ्चमी पुण्यतपोनलीनं, शिवाङ्गजोऽव्याज्जनमात्मलीनम् ॥ १ ॥ वितेनिरे मेरुगिरौ वितन्द्रा, येषां मुदा जन्ममहं महेन्द्राः । रक्षन्तु ते पञ्चमिकातपस्थं, विघ्नौघकृत्तीर्थकृतो भवस्थम् ॥ २ ॥ चकार यं पञ्चमगच्छनेता, य: पापभारस्य सदाऽपनेता | स आगमः पचमिका तपस्थं करोतु पूर्ण त्रिजगन्नमस्यम् ॥ ३ ॥ प्रयाति या नेमिगिरौ विनीता, सिंहेऽधिरूढास्तवमा निहन्तृ । श्रीपञ्चमीचारुतपो ममाऽम्बा, पुष्णातु देवी जगतः किलाम्बा ||४|| अथ श्रीमौन एकादशीस्तुतिः । १ ( स्रग्धराछन्दः ) श्रीभाग् नेमिर्बभाषे जलशयसविधे स्फूर्तिमेकादशीयां, माद्यन्महावनिद्रप्रशमनविशिखः पञ्चवाणाऽर्चिरणः । मिथ्यात्वध्वान्तवान्तौ रविकरनिकरस्तीव्रलोभाद्रिवत्रं, श्रेयस्तत्पर्व वः स्ताच्छिवसुखमिति वा सुव्रतश्रेष्ठिनोऽभूत् ॥१॥ इन्द्रैरभ्रभ्रमद्भिर्मुनिपगुणरसाऽऽस्वादनाऽऽनन्दपूर्णे ३ र्दीव्यद्भिः स्फारहारैर्ललितवरवपुर्यष्टिभिः स्वर्वधूभिः । सार्धं कल्याणकौवो जिनपतिनवते बिन्दुभूतेन्दुसङ्ख्यो, घस्रे यस्मिन् जगे तद्भवतु सुभविनां पर्व सच्छर्महेतुः सिद्धान्ताब्धिप्रवाहः कुमतजनपदान् प्लावयन् यः प्रवृत्तः, सिद्धिद्वीपं नयन् धीधनमुनिवणिजः सत्यपात्रप्रतिष्ठान् । १ कृष्णसमीपे । २ अर्णः - जलम् । ३ वा शब्दस्य यथा इत्यर्थः । ४ गीयते स्म । Jain Education International For Private & Personal Use Only ॥२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564