Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
५१८
स्तुतितरङ्गिणी : दशमस्तरङ्ग
-
श्रीश्रीपालादिकानामिव सुषमभृतां प्राणिनां भक्तिभाजां, शं स्ववृक्षं दिशन्तु प्रशमसुखफलं मुक्तिसौभाग्यबीजम् ॥४॥
२ (स्रग्धराछन्दः ) ज्ञात्वा प्रश्नं तदर्थ गणधरमनसं प्राग्वदेवीरदेवः, अर्हत्सिद्धार्यसाधुप्रभृतिनवपदान् सिद्धचक्रस्वरूपान् । ये भव्याः श्रित्य धिष्णं प्रतिदिनमधिकं संजपन्ते स्वभक्त्या, ते स्युः श्रीपालवच्च क्षितिवरपतयः सिद्धचक्रप्रसादात् ॥१।। दुस्तीर्ण निस्तरीतुं भवजलनिधिकं पाणियुग्मे गृहीत्वा, यानेकान् कोटिकुम्भान् कनकमणिमयान षष्ठिलक्षाभियुक्तान् । गङ्गासिन्धुह्रदानां जलनिधितटतस्तीर्थतोयेन भृत्वा, तत्सर्वाधीश्वराणां सुरपतिनिकरा जन्मकृत्यं प्रचक्रुः कुर्युर्देवास्त्रिवप्रं रजतमणिमयं स्वर्णकान्त्याऽभिरामे, स्थित्वा स्थाने सुवाक्यं जिनवरपतयः प्रावदन् यां च नित्यम् । तां वाचां कर्णकूपे सुनिपुणमतयः श्रद्धया ये पिबन्ति, ते भव्याः शैवमार्गागमविधिकुशला मोक्षमाशु प्रयान्ति ॥३। देवी चक्रेश्वरी स्रग्दधति च हृदये पत्तने देवकाख्ये, कामे मोदाभिकीर्णे विमलपदयुजैः सिद्धचक्रस्य बीजे । श्रीमद्धर्षादियुक्तैर्विजयप्रभवरैर्यरूपैर्मुनीन्द्रैः, स्तुत्या नित्यं सुलक्ष्मीविजयपदधृतैः प्रेमपूणैः प्रसन्ना
॥
४
३ ( उपजातिछन्दः ) जं भत्तिजुत्ता जिणसिद्धसूरि-ओज्झायसाहूण कमे नमंति। सुदंसणन्नाण तवो चरित्तं, पुरंतु पावेह सुहं अणंतं. ॥१
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564