Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
५२४
स्तुतितरङ्गिणी : दशमस्तरन्तः
. + २ ( उपजातिछन्दः) सिद्धार्थभूपालकुलावतंसं, विद्वन्मनोमानसराजहंसम् । माद्यबलीबई विराजहंसं, वीरं नुवे देवकृतप्रशंसम् ॥१॥ राजी जिनानां ददतां सुखानि, भव्याङ्गिनां भक्तहितावहा सा। विश्वत्रयीका मितकल्पवल्ली, दीपालिकापर्वणि वन्द्यमाना ॥२॥ सिद्धान्तवार्धिर्वरयुक्तिशुक्तिका-युक्तः सदालापकमौक्तिकाञ्चितः । मुनीन्द्रसत्पोतवणिनिषेवितः, सदर्थयुक्तो ददतां सदर्थम् ॥३॥ मातङ्गयक्षोऽर्थिषु कल्पवृक्षः, वीराहतो भक्तिविधानदक्षः। लीलासमुन्मूलितविघ्नलक्षः, दीपालिकायां कुरुतां सुखानि ॥४॥
+ ३ (द्रुतविलम्बितवृत्तम् ) नमत भव्यजना ! गणभृद्वरं, चरमदेवपदाम्बुजषट्पदम् । सकललब्ध्यतिशायिनमादरा-द्विनयतो नययुग वचनश्रियम् ।।१।। जिनततिर्जयताजयदायिनी, प्रवरसौख्यकलापविधायिनी ।। असमलक्षणलक्ष्मविराजिता, त्रिभुवनाम्बुजभासनभास्कराः ।। २ ।। जिनपतेर्वचनं श्रुतिसौख्यदं, भविकजाड्यतमस्तरणिप्रभम् । ... ललितसत्पदपद्धतिराजितं, शृणुत भव्यजनाः शिवसम्पदे ॥३॥ स्मरत भव्यजनाः श्रुतदेवतां, जिनवराननपङ्कजवासिनीम् । विदधतीं शुभदीपमहोत्सवे, भविकमानसकामिनसम्पदम् ॥४॥
*जिनशासनभासन ! श्रीगौतमगणधर ! गुणनिधान !। जिनसमुदयसमयसुरप्रधान ! जय दीपालीध्येयाभिधान ! ॥१॥
* इयं स्तुतिः चतुर्शः उच्यते । १ पू.आ.श्रीसेनसूरीश्वजीमहाराजशिष्य मुनिश्री कमलविजयेन कृतेयं स्तुतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 557 558 559 560 561 562 563 564