Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
श्रीगौतमगणधराणां स्तुतयः
*जय जय करमङ्गलदीपक ! जिनवर"वीर ! वीर ! श्रीगौतमगणधर ! । भवदवनीरदनीर ! प्रवचनजनसमुदयसुन्दर !, सुरकोटीरदीपालीकमलामालतिलकवरहीर !
॥ १॥
अथ श्रीगौतमगणधरस्तुतयः।
१ ( रथोद्धताछन्दः) . गौतमान्वयपवित्रगौतमः, सप्तहस्ततनुकः स सिद्धये । अस्तु सत्समचतुरस्रसंस्थितः, केवलाय समभूद् विषादकः ॥१॥ तीर्थकृत्ततिरियं भवे भवे, दुःखकूपनिपतजनान् भवेत् । पालनाय यतनापरायणा, कर्मशत्रुसुपुटीकृतोक्षरा ॥२॥ नैगमादियुतसंयुतागम-स्तीर्थद्वदनभाषणाग्रिमः । अन्यतीर्थिकमनश्चमत्कृतिः, शङ्करः सकलजन्मिनोऽस्तु वः ॥ ३॥ अम्बिकाऽभिधगरिष्ठदेविका, बिभ्रती श्रवणयोः सुकुण्डले । स्तूयमानगुणमण्डला जनै-विनघातजनकाऽस्तु सन्ततम् ॥ ४ ॥
२ ( भुजङ्गप्रयातछन्दः ) यदीयं प्रभाते स्फुरन्नामधेयं, गृहीत्वा ययुर्जन्मिनः कोटिसङ्ख्याः । शिवं यान्ति यास्यन्ति कुर्यात् कलानां, कलापं कुकर्मारिभिद् गौतमोमे।।१। ___ * इयं स्तुतिः चतुर्शः उच्यते। १ पू.आ.श्रीसेनसूरीश्वरजीमहाराजशिष्यअनिश्रीकमलविजयेन कृतेयं स्तुतिः। २-३ पू.महोपाध्यायश्रीधर्मसागरगणिशिष्य पू.पं.श्रीगुणसागरगणिना कृते इमे स्तुती। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 558 559 560 561 562 563 564