Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
श्रीदीपमालिकारतुतयः
५२३
कल्पाख्यं मूलसूत्रं चरणगुणयुतं वाचितं तत्त्वविद्भिः, श्राव्यं क्षम्याश्च जीवास्त्रिकरणशुचिभिश्चैत्ययात्रा च कार्या । कार्या सङ्घस्य पूजाऽशनविधिसहिता वार्षिके वासरेऽस्मिनानन्दं सङ्घसार्थ सपदि कुरु शुभे! देवि! सिद्धायिके ! त्वम् ।।४।।
अथ श्रीदीपमालिकास्तुतयः।
१ ( शार्दूलविक्रीडितवृत्तम् ) पापायां पुरि चारुषष्ठतपसा पर्यङ्कपर्यासनः, क्ष्मापालप्रभुहस्तिपालविपुलश्रीलेखशालां गतो गोसे कार्तिकदर्शनागकरणे तुर्यारकान्ते शुभे, स्वातौ यः शिवमाप पापरहितं संस्तौमि वीरं जिनम् ॥१॥ यद्गर्भागमनोद्भवव्रतवरज्ञानाप्तिभद्रक्षणे, संभूयाशु सुपर्वसन्ततिरहो चक्रे महस्तक्षणात् । श्रीमन्नाभिभवादिवीरचरमास्ते श्रीजिनाधीश्वराः, संघायानघचेतसे विदधतां श्रेयांस्यनेनांसि च अर्थात्पूर्वमिदं जगाद जिनपः श्रीवर्धमानाभिध:, तत्पश्चाद्गणनायका विरचयांचक्रुस्तरां सूत्रतः । श्रीमत्तीर्थसमर्थनैकसमये सम्यग्दृशां भूस्पृशां, भूयाद्भावुककारकं प्रवचनं चेतश्चमत्कारि यत् श्रीतीर्थाधिपतीर्थभावनपरा सिद्धायिका देवता, चञ्चच्चक्रधरा सुरासुरनता पायादसौ सर्वदा । अर्हच्छ्रीजिनचन्द्रगीः सुमतितो भव्यात्मनः प्राणिनो, या चक्रेऽवमकष्टहस्तिमथने शार्दूलविक्रीडितम् ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564