SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ श्रीदीपमालिकारतुतयः ५२३ कल्पाख्यं मूलसूत्रं चरणगुणयुतं वाचितं तत्त्वविद्भिः, श्राव्यं क्षम्याश्च जीवास्त्रिकरणशुचिभिश्चैत्ययात्रा च कार्या । कार्या सङ्घस्य पूजाऽशनविधिसहिता वार्षिके वासरेऽस्मिनानन्दं सङ्घसार्थ सपदि कुरु शुभे! देवि! सिद्धायिके ! त्वम् ।।४।। अथ श्रीदीपमालिकास्तुतयः। १ ( शार्दूलविक्रीडितवृत्तम् ) पापायां पुरि चारुषष्ठतपसा पर्यङ्कपर्यासनः, क्ष्मापालप्रभुहस्तिपालविपुलश्रीलेखशालां गतो गोसे कार्तिकदर्शनागकरणे तुर्यारकान्ते शुभे, स्वातौ यः शिवमाप पापरहितं संस्तौमि वीरं जिनम् ॥१॥ यद्गर्भागमनोद्भवव्रतवरज्ञानाप्तिभद्रक्षणे, संभूयाशु सुपर्वसन्ततिरहो चक्रे महस्तक्षणात् । श्रीमन्नाभिभवादिवीरचरमास्ते श्रीजिनाधीश्वराः, संघायानघचेतसे विदधतां श्रेयांस्यनेनांसि च अर्थात्पूर्वमिदं जगाद जिनपः श्रीवर्धमानाभिध:, तत्पश्चाद्गणनायका विरचयांचक्रुस्तरां सूत्रतः । श्रीमत्तीर्थसमर्थनैकसमये सम्यग्दृशां भूस्पृशां, भूयाद्भावुककारकं प्रवचनं चेतश्चमत्कारि यत् श्रीतीर्थाधिपतीर्थभावनपरा सिद्धायिका देवता, चञ्चच्चक्रधरा सुरासुरनता पायादसौ सर्वदा । अर्हच्छ्रीजिनचन्द्रगीः सुमतितो भव्यात्मनः प्राणिनो, या चक्रेऽवमकष्टहस्तिमथने शार्दूलविक्रीडितम् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy