Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
५१४
स्तुतितरङ्गिणी : दशमस्तरङ्गः
यात्वा देवाधिदेवाऽऽगमदशमसुधाकुण्डमाऽऽनन्दहेतुस्तत्पञ्चम्यास्तपस्युद्यतविशदधियां भाविनामस्तु नित्यम् ॥ ३॥ स्वर्णाऽलङ्कारवल्गन्मणिकिरणगणध्वस्तनित्याऽन्धकारा, हुङ्काराऽऽरावदूरीकृतसुकृतिजनवातविघ्नप्रचारा । देवी श्रीअम्बिकाऽऽख्या जिनवरचरणाऽम्भोजभृङ्गी समाना, पञ्चम्यह्नस्तपोथं वितरतु कुशलं धीमतां साऽवधाना ॥४॥
__२ ( स्रग्धराछन्दः ) शैवेयः शङ्खकेतुः कलितजनमस्संशयः सर्वकालं, विश्वेशः सौवदेहातिविजितघनः कर्मधर्माऽमृतांशुः । क्षान्त्यादयः कष्टदुष्टक्षयकरणपरो रैवतोत्तंसतुल्यः, कल्याणं पञ्चमी सत्तपसि वितनुतां पञ्चमज्ञानवान् वः ॥१॥ नाभेयत्रैशलेयप्रथमचरमकश्चन्द्रवच्चारुचश्चन्मूर्तिः स्फूर्तिं दधानः प्रथयति कुमुदं यो बुधालादहेतुः । प्रोद्दामच्छद्मपद्मा विकचकरकरः सत्कलावान्मनोज्ञो, ज्ञानं पुष्याजिनौघः स तपसि भविनां पञ्चमीवासरस्य ॥२॥ गीर्वाणाधीशपुंसां पतिकुसुममिदं पुण्यभाजो मनुष्यानिर्वाणामेयसौख्यप्रबलफलमथो यत्प्रसादाल्लभन्ते । श्रीसार्वप्रौढशुद्धागमधरणिरुहः सिद्धिदानैकरक्तस्तत्पञ्चम्यास्तपस्युद्यतविशदधियां भाविनामस्तु नित्यम् ॥३॥
१ गत्वा । २ पाताले नवाऽमृतकुण्डानि सन्ति । नागे कुलैरधिष्ठितानि इति श्रुतिः । इदं तु भगवदागमरूपं दशमामृतकुण्डमित्यर्थः । ३ भक्तिमतां प्राणिनाम् । ४ पू.मुनिराजश्रीगुणविजयेन कृतेयं स्तुतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564