Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 548
________________ श्रीउद्यीतपंचमीस्तुतयः + २ ( उपजातिवृत्तम् ) 11311 गर्भावतारे जनिषु व्रते च श्रीकेवले सिद्धिसमागमे च । कल्याणके स्वर्गतिर्यस्य भूमि -स्तं तीर्थं ! भावभरेण नौमि नामाऽर्हतः श्री ऋषभेशमुख्यान् द्रव्यार्हतो भूतभविष्यदीशान् । सीमन्धराद्यानपि भावदेवान्, श्रीस्थापनाऽर्हत्प्रतिमाः श्रयेयम् ||२|| उत्कालिकं कालिकमङ्गरूपं, श्रीदृष्टिवादाऽऽख्यमुरुस्वरूपम् । इत्थं श्रुतज्ञानमनेकभेदं ध्यायामि नित्यं भवभीतिभेदम् ॥ ३ ॥ प्रचण्डपञ्चाननचारुयाना, पदे पदे कल्पलता प्रधाना | श्रीअम्बिका मन्दिरमेखलेव, प्रीणन्तु नेत्रे मम मन्दकानाम् ॥ ४॥ ५१३ अथ श्रीउद्योतपञ्चमीस्तुतयः । १ ( खग्धराछन्दः ) श्रीनेमिः पञ्चरूपस्त्रिदशपतिकृतप्राज्यजन्माभिषेकचञ्चत्पञ्चाक्षमत्तद्विरदमदभिदापञ्चवक्त्रोपमानः । निर्मुक्तः पञ्चदेह्याः परमसुखमयः प्रास्तकर्म प्रपञ्चः, कल्याणं पञ्चमीसत्तपसि वितनुतां पञ्चमज्ञानवान् वः ॥ १ ॥ सम्प्रीणन् सञ्चकोरान् शिवतिलकसमः कौशिकाऽऽनन्दिमूर्तिः, पुण्याब्धिप्रीतिदायी सितरुचिरिव यः स्वीयगोभिस्तमांसि । सान्द्राणि ध्वंसमानः सकलकुवलयोल्लासमुच्चैश्चकार, ૧ ज्ञानं पुष्याज्जिनौघः स तपसि भविनां पञ्चमीवासरस्य ॥ २ ॥ पीत्वा नानाभिधाऽर्थाऽमृतरसमऽसमं यान्ति यास्यन्ति जग्मुर्जीवा यस्मादनेके विधिवदमरतां प्राज्यनिर्वाणपुर्याम् । १ तपो विषये सति । २ निर्वाणं शर्म । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564