Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
५१५
श्रीउद्योतपंचमीस्तुतयः संपूर्णा पूर्णिमेन्दुप्रभसुभगगुणैर्दत्तदेवेन्द्रमानाप्रोद्यद्गन्धद्विपेन्द्रप्रचुरमदहरैणाधिपे राजमाना । श्रीअर्हद्भक्तिभावा विमलकजकरा भास्वदम्बाभिधाना, पञ्चम्यह्नस्तपोऽथ वितरतु कुशलं धीमतां सावधाना
॥४॥
॥ १ ॥
___ ३ ( शार्दूलविक्रीडितवृत्तम् ) पञ्चानन्तकसुप्रपञ्चपरमानन्दप्रदानक्षम, पञ्चानुत्तरसीमदिव्यपदवीवश्याय मन्त्रोपमम् । येन प्रोज्ज्वलपञ्चमीवरतपो व्याहारि तत्कारिणां, श्रीपञ्चाननलाञ्छनः स तनुतां श्रीवर्धमानः श्रियम् ये पञ्चाश्रवरोधसाधनपरा पञ्चप्रमादीहराः, पञ्चाणुव्रतपञ्चसुव्रतविधिप्रज्ञापनासादराः । कृत्वा पञ्चहृषीकनिर्जयमथ प्राप्ता गतिं पञ्चमी, तेऽमी सन्तु सुपश्चमीव्रतभृतां तीर्थङ्कराः शङ्कराः पञ्चाचारधुरीणपश्चमगणाधीशेन संसूत्रितं, पञ्चज्ञानविचारसारकलितं पञ्चेषु पञ्चत्वदम् । दीपाभं गुरुपञ्चमारतिमिरेष्वेकादशीरोहिणीपञ्चम्यादिफलप्रकाशनपटुं ध्यायामि जैनागमम् पञ्चानां परमेष्ठिनां स्थिरतया श्रीपञ्चमेरुश्रियां, भक्तानां भविनां गृहेषु बहुशो या पञ्चदिव्यं व्यधात् । प्रह्वे पञ्चजने मनोमतकृतौ स्वारत्नपाञ्चालिका, पञ्चम्यादितपोवतां भवतु सा सिद्धायिका त्रायिका
॥२॥
॥३॥
॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564