Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
दशमस्तरङ्गः
अथ श्रीपञ्चतीर्थस्तुतिः।
.. १ ( शार्दूलविक्रीडितवृत्तम् ) श्रीशत्रुञ्जयमुख्यतीर्थतिलकं श्रीनाभिराजाऽङ्गजं, बन्दे रैवतशैलमौलिमुकुटं श्रीनेमिनाथं यथा । तारङ्गेऽप्यजितं जिनं भृगुपुरे श्रीसुव्रतं स्थम्भने, श्रीपार्श्व प्रणमामि सत्यनगरे श्रीवर्धमानं त्रिधा ॥१॥ वन्देऽनुत्तरकल्पतल्पभुवने अवेयके व्यन्तरा, ज्योतिष्कामरमन्दराद्रिवसतिस्तीर्थङ्करानादरात् । जम्बूपुष्करधातकिषु रुचके नन्दीश्वरे कुण्डले, ये चाऽन्येऽपि जिना नमामि सततं तान् कृत्रिमा कृत्रिमान ॥२॥ श्रीमद्वीरजिनस्य पद्महृदतो निर्गम्य तं गौतम, गङ्गावर्तनमेत्य या प्रविभिदे मिथ्यात्ववैताढ्यकम् । उत्पत्तिस्थितिसंहृतित्रिपथगा ज्ञानाम्बुदावृद्धिगा, सा मे कर्ममलं हरत्वविकलं श्रीद्वादशाङ्गी नदी ॥३॥ शक्रश्चन्द्ररविग्रहाश्च धरणब्रह्मेन्द्रशान्त्यम्बिका, दिक्पालाः सकपर्दिगोमुखगणिश्चक्रेश्वरी भारती। येऽन्ये ज्ञानतपःक्रियाव्रतविधिश्रीतीर्थयात्रादिषु, श्रीसङ्घस्य तुरा चतुर्विधसुरास्ते सन्तु भद्रङ्कराः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564