Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 525
________________ ४९० स्तुतितरङ्गिणी : अष्टमस्तरङ्गः पुष्पौघपद्मदलसौरभगुण्ठितानि, स्वर्णाम्बुजैः सुरकृतैःपरिमण्डितानि | वन्देऽहा वरपदानि नतान्यजेन, भावावनामसुरदानवमानवेन ॥२। नानारत्नैः सुभगमतुलप्रौढसादृश्यपाठेविज्ञज्ञातैर्वहुनयभरैः सत्तरङ्गैरुपेतम् । युक्त्या जैन समयमुदधिं कीर्तयाम्यस्मि कामं, बोधागाधं सुपदपदवीनीरपूराभिरामम् श्रीमद्वीरक्रमाम्भोरुहरसिकमना राजहंसीव रम्या, सिद्धा सिद्धाविरुद्धा विशदगुणलसद्भक्तहृत्पद्मरुद्धा । या धत्ते स्वीयकण्ठे घनसुरभिरसां पुष्पमालां विशालां, आमूलालोलधूलीबहुलपरिमलालीढलोलालिमालाम् ॥४॥ __३ ( शार्दूलविक्रीडितम् ) स्फूर्जद्भक्तिनतेन्द्रशीर्षविलसत्कोटीररत्नावलीरङ्गत्कान्तिकरम्बिताऽद्भुतनखश्रेणिसमुज्जृम्भितम् । सिद्धार्थाङ्गरुहस्य कीर्तितगुणस्थाहिद्वयं पातु वः, स्नातस्याप्रतिमस्य मेरुशिखरे शच्या विभोः शैशवे ॥१॥ श्रेयःशर्मकृते भवन्तु भवतां सर्वेऽपि तीर्थाधिपाः, येषां जन्ममहः कृतः सुरगिरौ वृन्दारकैः साऽऽदरैः । पौलोमीस्तनगर्वखण्डनपरैः कुम्भैः सुवर्णोद्भवैः, हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः ॥२॥ १ वसन्ततिलकावृत्तम् । २ मन्दाक्रान्तावृत्तम् । ३ स्रग्धराछन्दः। ४ पू. मुनिराजश्रीगुणविजयगणिना कृतेयं स्तुतिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564