Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 523
________________ ४८८ अथ जेसलमेर मण्डन श्रीपार्श्वजिनस्तुतिः । १ ( द्रुतविलम्बितवृत्तम् ) शमदमोत्तमवस्तु महापणं, सकलकेवलनिर्मलसद्गुणम् । नगर जेसलमेरविभूषणं, भजत पार्श्वजिनं गतदूषणम् ॥ १ ॥ सुरनरेश्वरनम्रपदाम्बुजाः स्मरमहीरुह भङ्गमतङ्गजाः । सकलतीर्थकराः सुखकारका, इह जयन्ति जगज्जनतारकाः || २ || श्रयति यः सुकृती जिनशासनं, विपुलमङ्गलकेलिविभासनम् । प्रबलपुण्यरमोदयधारिका, फलति तस्य मनोरथमालिका ॥ ३ ॥ विकट सङ्कटकोटिविनाशिनी, जिनमताश्रितसौख्यविकाशिनी । नरनरेश्वर किन्नरसेविता, जयतु सा जिनशासनदेवता ॥ ४ ॥ स्तुतितरङ्गिणी : अष्टमस्तरङ्गः " अथ श्रीअजारापार्श्वजिनस्तुतिः । + १ ( द्रुतविलम्बित वृत्तम् ) १ नमत पार्श्वजिनं जगदीश्वरं, सुरवरैः स्तुतपादसरोरुहम् । निजयशो धवलीकृतविष्टपं, लसदजापुरचारुविभूषणम् ददतु मे परमां सुखसम्पदं, जिनवरा जितमोहमहाभटाः । कुसुमबाणगजेन्द्रगजारयः सकलमङ्गलवल्लिवनोपमाः जिनवरागमवारिधरो वरो, जयतु लोकमनोमलशोधकः । विविधभद्रमहीरुहवर्धकः भविकलोकमयूरसुमोदक: वितनुतां धरणेन्द्रवधूः सदा, परमुदं भविकस्य नताऽमरा । सुरवधुव्रज सेवितसद्पदा सकलविघ्नविनाशनतत्परा Jain Education International १ इयं स्तुतिः पू. मुनिराज श्री शान्तिविमलेन कृता । For Private & Personal Use Only ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ #18 11 www.jainelibrary.org

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564