Book Title: Stuti Tarangini Part 01
Author(s): Bhadrankarsuri
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
५००
नवमस्तरङ्गः
प्रागैरावतभारतकजनुषोऽसास्नाविषुर्वासवैः, स्वर्णाद्रौ त्वपरीपरस्त्रिजगतीनैः स्वसांवत्सरैः । लब्ध्वा ज्ञानमजङ्गमुः शिवपुरी येऽनन्तसौख्यं मुनीन् , श्रीसङ्घानभिपप्रपु: स्वविभवैः पुण्योद्भवैस्ते जिनाः ॥ ५ ॥ या मध्ये सदसं जिनैतिपदिकादीपी स्म राराज्यते, भास्यन्ते स्म ततोऽपि पूर्वसमया दीपा गणीन्द्रः परैः । देदीपीति ततोऽपि भासितजगत्सिद्धान्तदीपोऽर्कवत् , विश्वान्धीकरणं तमोऽप्यपहरद् भूयात् स सङ्घश्रिये ॥ ६ ॥ सङ्घो यः परिपर्ति यां प्रमहितुं सम्यक्त्ववैशारदां, ध्यातुं वा दरिदर्ति हृत्सरसिजे श्रीतीर्थकृच्छारदाम् । रक्षायै परिपर्वसौ जिनमतं तं क्षीणकष्टारकं, विश्वेष्टैः परिपतु सा भगवती श्रीसङ्घभट्टारकम् ॥७॥
अथ श्रीपञ्चजिनस्तुतयः ।
१ ( स्रग्धराछन्दः ) ख्याताख्याऽतामस ! त्वामहतमहतति सन्नुवामो नु वामोपायाऽपायापहारे वृषभ ! वृषभराड्लाच्छिताऽरं छितारम् । सारं सारङ्गदृष्टे ! ऽपदरपदरतं कम्प्रकामं प्रकामं, हेतुं हेतुप्रदानेऽसुरतसुरतरो ! भूतले भूतलेखम् ॥ १ ॥ शान्ते ! शान्तद्धनेत्रोभय ! सभयसखं देहतारं हतारं, नन्ताऽनन्ताऽत्र न त्वामरणमरण ! तं सत्कलौकः ! कलौ कः ? । लीलाऽऽलीलाः सुदारा विषयविषयमुद्धासदक्षाः सदक्षाः, येनाऽयेनाऽऽश्रितोच्चैरमलरमलभूदीप्रमुक्ताः प्रमुक्ताः ॥२॥ १ प्रान्तपद्यत्रयेण साकं भण्यते तदा चतुर्मुखजिनस्तुतयो. भवन्ति ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564