SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ५०० नवमस्तरङ्गः प्रागैरावतभारतकजनुषोऽसास्नाविषुर्वासवैः, स्वर्णाद्रौ त्वपरीपरस्त्रिजगतीनैः स्वसांवत्सरैः । लब्ध्वा ज्ञानमजङ्गमुः शिवपुरी येऽनन्तसौख्यं मुनीन् , श्रीसङ्घानभिपप्रपु: स्वविभवैः पुण्योद्भवैस्ते जिनाः ॥ ५ ॥ या मध्ये सदसं जिनैतिपदिकादीपी स्म राराज्यते, भास्यन्ते स्म ततोऽपि पूर्वसमया दीपा गणीन्द्रः परैः । देदीपीति ततोऽपि भासितजगत्सिद्धान्तदीपोऽर्कवत् , विश्वान्धीकरणं तमोऽप्यपहरद् भूयात् स सङ्घश्रिये ॥ ६ ॥ सङ्घो यः परिपर्ति यां प्रमहितुं सम्यक्त्ववैशारदां, ध्यातुं वा दरिदर्ति हृत्सरसिजे श्रीतीर्थकृच्छारदाम् । रक्षायै परिपर्वसौ जिनमतं तं क्षीणकष्टारकं, विश्वेष्टैः परिपतु सा भगवती श्रीसङ्घभट्टारकम् ॥७॥ अथ श्रीपञ्चजिनस्तुतयः । १ ( स्रग्धराछन्दः ) ख्याताख्याऽतामस ! त्वामहतमहतति सन्नुवामो नु वामोपायाऽपायापहारे वृषभ ! वृषभराड्लाच्छिताऽरं छितारम् । सारं सारङ्गदृष्टे ! ऽपदरपदरतं कम्प्रकामं प्रकामं, हेतुं हेतुप्रदानेऽसुरतसुरतरो ! भूतले भूतलेखम् ॥ १ ॥ शान्ते ! शान्तद्धनेत्रोभय ! सभयसखं देहतारं हतारं, नन्ताऽनन्ताऽत्र न त्वामरणमरण ! तं सत्कलौकः ! कलौ कः ? । लीलाऽऽलीलाः सुदारा विषयविषयमुद्धासदक्षाः सदक्षाः, येनाऽयेनाऽऽश्रितोच्चैरमलरमलभूदीप्रमुक्ताः प्रमुक्ताः ॥२॥ १ प्रान्तपद्यत्रयेण साकं भण्यते तदा चतुर्मुखजिनस्तुतयो. भवन्ति । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy