________________
श्रीपञ्चजिनस्तुतयः
५०१
शस्तेशस्तेजइद्धाहरितहरिततनुःशङ्खलक्ष्मा खलक्ष्मादाता दाताघ ! लोकोत्तर ! वितर विभो ! ज्ञानबन्धोनबन्धो!। सातं सातङ्कपुंसामनुपम ! नु पदं चारुधामोरुधामोऽमा-रामा-राग ! नेमे ! समरसमरज:पानवायुनवायुः ॥ ३ ॥ पार्शः पार्श्वश्रितो वो हितमहितमभाग् रातु पातात् तु पाताsवामो वामोरुकुक्षौ सरसि स रसिको हंसकल्प: सकल्पः । लेखा लेखाधिपानामसितमसितताभं सदायं सदा यं, रन्तारं तारमुक्तावरतवरतनुं सन्नताऽऽसन्नतासम् ॥४॥ यामायामादरोद्यद्विभव ! विभव ! सच्छोभदन्तं भदन्तं, रोषारोषार्क ! वीराऽऽनतजनत ! जवात् त्वामहेयं महेयम् । तं तातं तारमुक्ताऽद्भ ! गदभगरजःस्फीतवायो तवायोदाराऽदाराऽस्ति यस्येह रणहरणगीरीतिवारातिवारा ॥५॥ भोगाभोगासनाऽऽरादमलदमलया साधु नाना धुनानाsमानं मानं जिनालीह रतहरतरा मारमायारमायाः । दद्यादद्यानतानामदरमदरजाः साऽविनाऽशं विनाशं, याऽपायापासनं प्रातनुत तनुतमः सज्जनानां जनानाम् ॥६॥ सज्जं सज्जन्तुरक्षे लयनिलयनिभं भूरिभङ्गारिभङ्गात्रामत्रामर्त्यऋद्धेरसमरसमयं संवरार्थ वरार्थम् । शंकोशं को रसित्वामरममरमहीराजपेयं जपेयं, मारामारामवह्ने ! समय ! समयतिध्यात ! रोहत्तरोह ! ॥ ७ ॥ रक्षोरक्षोद्यता मेऽमलयमलयवत्सायतीनां यतीनां, कल्याऽकल्याणराशिं हरतु हरतुषारांशुभासा शुभा सा । १ प्रान्तपद्यत्रयेण साकं भण्यते तदा पञ्चजिनस्तुतयो भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org