SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ नवमस्तरङ्गः अथ श्रीचतुर्मुखजिनस्तुतयः। + १ (शिखरिणीवृत्तम् ) जयश्रीनेतारं प्रथमजिनपं नोनुवति ये, मुदा मामन्यन्ते त्रिदशवृषभैस्तेऽपि हरिवत् । प्रपेप्रीयन्ते ये वृषभजिननेत्रामृतरसैः,, प्रपेप्रीयन्ते ते युवतिभिरहो विष्णुपितृवत् ॥१॥ अक्षेषु प्रभुता शिरोवहनता मेऽबोभवीदक्षिणावर्ताऽऽख्यापि वरीवरीति विभवाच्छङ्खोऽपि वो भक्तिताम् । यस्यां किं किल याचितुं तव पुरः शङ्खः श्रियः शाश्वतीः, स श्रीनेमिजिनः प्रणम्रभुवनस्तारस्तुतः पातु नः ॥२॥ मूर्ति यायजतीश ! ते सुमनसां भङ्गयैव ये सच्छ्रिये, नूनं यायजतीह राज्यविभवैर्देपालवत् तेऽङ्गिनः। ये वा जाजपतीद्ध ! मन्त्रमणिवत्ते यस्य नामान्यहो, प्रापूर्याच्छिविनो गुणांश्च सकलान् श्रीपार्श्वनाथः स नः ॥ ३॥ मूर्ति मामदति स्म वीक्ष्य जिन ! ते देवाधिदेव ! प्रभावत्याद्या इव ये पराप्रति हि तान् देवर्द्धयः सिद्धयः। येनाऽजायि हरिबलादिह महावीरो वरीवर्त्यसौ, यं सिंहोऽङ्कमिषान्नृसिंहमभजत् श्रीवर्धमानः श्रिये ॥४॥ ' १ पू.आ.श्रीमुनिसुन्दरसूरीश्वरजीमहाराजकृतेयं स्तुतिः सम्भाव्यते । २ शार्दूलविक्रीडितवृत्तम् । .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy