________________
४९८
स्तुतितरङ्गिणी : अष्टमस्तरङ्ग
___१६ ( अत्युक्ताजातौ स्त्रीछन्दः ) वीरं हीरं सेवे भक्त्या सर्वेऽहंन्तः शान्ति कुर्युः ॥ २ ॥ जैनं वाक्यं सिद्धिं दद्यात् ॥ ३ ॥ विद्यादेवी दद्याद्विद्याम् .. ॥४॥
१७ ( कन्याछन्दः ) लोकाधारं शान्ताकारं वन्दे वीरं वीरं वीरम् सिद्धा बुद्धा ये श्रीदेवाः तेषां भावैः कार्या सेवा ॥२॥ श्रौतीभक्तिश्चित्ते येषां प्रज्ञाजातं पुण्यं तेषाम् ॥३ ॥ जैना यक्षा रक्षा दक्षा दिशन्तु मे धर्मे शिक्षा ॥४॥
१८ ( अनुष्टुभ् ) *वीर ! देवव्रजाराध्य-यक्ष ! सिद्धान्ततत्त्ववित् !। श्रीमद्विजयसेनाख्य !, कुरु भद्रं महोदयम् ॥१॥
१९ ( उपजातिवृत्तम ) श्रीवर्धमान ! प्रभुताऽभिराम ! श्रीतीर्थराजः शिवशूचिवाचः । सर्वानुभूतिप्रभव: प्रसपत्-सौख्यं प्रकर्षे ददतां जनानाम् ॥१॥
___ २० ( वसन्ततिलकावृत्तम् ) *श्रीवर्द्धमानं ! जय ! सर्वजिनेशसिद्धसिद्धान्तगोमुखहिमद्युतिकान्तिकान्त-। सोवर्णवर्णवरदेहसमुल्लसच्छ्रीलावण्यतोषितसुधीजनलोचनाली ॥१॥
* इयं स्तुतिः चतुर्शः उच्यते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org