________________
श्रीवर्धमानजिनस्तुतयः
१२ *कमलदललोचनं विमलकुलरोचनं, भजत भयभञ्जनं भुवनजनरञ्जनम् । समयमभिवन्दितं त्रिजगतीजीवनं, वीरमर्हद्गुणं शासनस्वामिनम्
।।१।। १३ ( अत्युक्ताजातौ स्त्रीछन्दः ) वीरं देवं नित्यं वन्दे ॥१॥ जैनाः पादा युष्मान पान्तु ।। २ ।। जैन वाक्यं भूयाद्भूत्यै ॥३॥ शन्नो देवी देयादम्बा ॥४॥
१४ ( कन्याछन्दः ) श्रीदेवार्य, विश्वे वर्यम् । पूर्णानन्दं, भक्त्या वन्दे ॥१॥ तीर्थाधीशाः, शुद्धादेशाः । सर्वेऽभिष्टं, शं कुर्वन्तु ॥२॥ अर्हद्वाचो वाचो युक्त्या। क्लप्ताः सद्भिः, पापं नन्तु ॥३॥ शान्ता कान्ता, सिद्धादेवी । शान्त्यै दान्त्य, शश्वत् भूयात् ॥ ४॥
१५ ( उपजातिवृत्तम् ). सदा महावीर ! भजे भवन्तम् (४) ॥ १ ॥ समे जिना मालमलङ्कवन्ते (४) ॥२॥ संसारवारागममानधेहि (४) ॥ ३ ॥ रमाकरामे भवतादरेशा (४) ॥ ४ ॥
१ पू.आ.श्रीविजयसेनसूरीश्वरजीमहाराजशिष्यपू.मुनिराजश्रीकमलविजये कृतेयं स्तुतिः । * इयं स्तुतिः चतुर्शः उच्यते । २ १७२४ प्रमिते व कृतवृतौ अस्मद्विहित एव पाठः लभ्यते तेनाऽत्रैवं उपन्यासः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org