________________
४९६
स्तुतितरङ्गिणी : अष्टमस्तरङ्गः
क्रीडाक्रीडामहिम्नां सरसरतिसुरीराजयः श्रीजयश्रीश्रेयः श्रेयस्विनस्तेऽसुरसुरपतयो मे क्रियासु क्रियासुः ॥४॥
१० ( आर्यांछन्दः) रुचिराजी रुचिराऽजीहित नोहितनोदकोदकोपमित ! । पङ्के पङ्केऽपङ्केहित ! हि तवावीरवाऽ ! वीर ! ॥ १ ॥ विश्वं विश्वं विश्वम्भर ! भर ताऽनत ! न तामसाऽराम !। महसा महसाऽऽमहसाचित ! चितमहत्कलाप ! तव पात् ॥ २ ॥ भारत्याभा रत्यापादित-दितपातकाऽऽतपायकृतः । जिनभर्तृर्जिनभर्तुर्माऽनोमाऽनोकवशाऽऽनद्वः भविक भवि के भविकं नय नय नयनोरुरश्मिराजिष्णुः । रामा रामाराऽऽमा सिद्धा सिद्धायिके ! सके !ऽशङ्के ॥ ४ ॥
___ + ११ ( वसन्ततिलकावृत्तम् ) *श्रीवर्धमान ! जिनशासन ! सर्वदर्शि !, सङ्घस्तुतोत्तमगुणैः श्रितसन्निकृष्ट ! । मातङ्गहारिगम ! शर्म कुरुष्व सम्यग् , श्रीसूरिहीरविजयोदित ! सत्प्रभाव !
॥१॥
१. पू.मनिराजश्रीरविसागरजीमहाराजकृतेयं स्तुतिः। * इयं स्तुतिः चतुर्शः उच्यते । २ प्रथमस्तुतौ हे श्रीवर्धमान ! शर्म कुरुष्व । द्वितीयां हे सर्वदर्शिसङ्घ ! शर्म कुरुष्व । तृतीयायां है जिनशासन ! त्वं शर्म कुरुष्व । चतुझं हे मातङ्गयक्ष ! त्वं शर्म कुरुष्व। ३ पू.कनककुशलगणिना कृतेयं स्तुतिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org