Book Title: Shamb Pradyumna Charitra Part 01
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta

View full book text
Previous | Next

Page 268
________________ सा-७ ૨૬૧ मुनीशोऽन्येधुरुद्याने, बहुभिः साधुभिः सह । महेंद्रस रिस्कृष्ट-क्रियावान समवासरत् ॥५२॥ वसंततौं समायाते, दलैश्च कुसुमैः फलैः।प्रेक्षणीया यथा शोभा, काननस्य प्रजायते ॥५३॥ अचिंत्यशक्तिसंयुक्ता-न्मु नीश्वरप्रभावतः।वने तत्र तथा साभू-च्चमत्कारविधायिनी ॥५४॥ काननस्य स्वकीयस्य, शोभा समीक्ष्य तादृशीं।अदृष्टचरमेतकिं, वनेश इति विस्मितः ॥५५॥ कश्चिदिव्यानुभावोऽय–मिति जानन्नितस्ततः।यावत्समीक्ष्यते ताव—दपश्यत्स मुनिप्रभुम् ॥५६॥ ददानं देशनां क्लेश-नाशिनी संघसंसदितं दृष्ट्वा वनपालोऽपि,प्रणाममकरोन्मुदा ॥५७॥ प्रणम्य मुनिनाथं तं, वक्तुं वसुमतीपतेः । कुसुमादि स आदाय, ययौ हर्षप्रकर्षतः ॥५८॥ आगत्य पार्थिवागार-द्वारं दौवारिकस्य च । दत्वा पुष्पादिकं किचि-न्मध्यं तेन समागतं ॥५९॥ पुरतः प्राभृतं मुक्त्वा, कृत्वा प्रणाममादरात् । वनपालः क्षमापाल—मवीवदत्सभास्थितं ॥६॥ प्रभो पत्रप्रसूनोद्य-त्फलैर्धाजति कानने । मुनीश्वरः समेतोऽस्ति, यतिसंततिसंयुतः ॥६१।। समाकर्ण्य महीशोऽपि, साधोस्तत्र समागमं । तस्य दत्वा बहु द्रव्य-मभूद्वंदितुमुत्सुकः ॥६२॥ भेरीभांकारयोगेन, मेलयित्वा पुरीजनान् । चचाल विपुलापालो, भक्तितो वंदितुं गुरुं ॥६३॥ मार्गे प्रमोदयन लोकानू , महत्तमसमृद्धिभिः। आययौ यावद्युद्यान-संनिधाने भुवो विभुः ॥६४॥ तावद्भूपतिचिह्नानि, परित्यज्य स्वभक्तये।विवेश वनमध्येऽसौ, विनयी हि नयी नृषः ॥६५॥ समागत्य च सूरींद्रो-पांते दत्वा प्रदक्षिणां । विधातुं मानवं जन्म, सफलं प्रणनाम सः ॥६६॥ श्रोतुकामो मुनिस्वामि-वचनं दुःखमोचनं । सभायां संघपूर्णायां, यथास्थानमुपाविशत् ॥६७॥ रम्या मुनीश्वरेणापि, प्रारेभे पुण्यदेशना । संसारसुखसताना-मपि मोक्षपदेशना ॥६८॥ निशम्य देशनां सुरि--पवित्रवक्त्रसंभवां । आनंदितो नृपोऽप्राक्षीत, कर्मबंधनिबन्धनं ॥६९॥ कथमुत्पद्यते कर्म?, कथं कर्म समेधते ? । तिष्ठति वा कथं कर्म ?, कर्म प्रक्षीयते कथं ? ॥१०॥ मुनिराजस्तदाजल्प-दाकर्णय महीपते ! । कर्मणां प्रकृतिः प्राज्या, वर्तते जिनशासने ॥७१॥ सप्तपंचाशता कर्म प्रादुर्भवति हेतुभिः । परिणामेन तीव्रण, तत्करणेन च वर्धते ॥७२॥ मिथ्यात्वेन च तुत्कर्म, तिष्ठत्यनेहसं बहु । क्षीयते शुद्धसम्यक्त्व—पालनेन निरंतरं ॥७३॥ मिथ्यात्वेन च द्वा-दशाविरतयः पुनः । पंचविंशतिः कषाया, योगाः पंचदशस्मृताः ॥७४॥ आभिग्रहिकमिथ्यात्व-मनाभिग्नहिकं तथा । आभिनिवेशिकं भूयः, सांशयिकमामि स्फुटं ॥७५॥ अनाभोगिकनाम स्या-मिथ्यात्वं पंचधेरितं । तीर्थकरैर्नराधारैः, केवलज्ञानभानुभिः ॥७६॥ यो जिनोक्तपृथक्त्वेन, सर्वप्रकारको ग्रहः । दर्शनस्य निजस्यैव, तदाभिग्रहिकं भवेत् ॥७७॥ अवक्रेण स्वभावेन, स्वकीयदर्शनेऽपि च । स्वान्यदेवगुरुराग्रो-ऽनाभिग्रहिकमीरितं ॥७८॥ जाननपि जिनोक्तानि तत्त्वानि स्वमनीषया । यो नापि घटयेदर्थी-स्तत्स्यादाभिनिवेशिकं ॥७९॥ . HHHUTHALI

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322