Book Title: Shamb Pradyumna Charitra Part 01
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta

View full book text
Previous | Next

Page 318
________________ सग-८ ૩૧૧ ઉત્પન્ન થઈ. પૂર્ણમાસે પુત્રીરૂપે જન્મ આપી, માતાપિતાએ રૂપવતી અને ગુણવંતી એવી પુત્રીનું કમલમાલા' નામ આપ્યું. અનુક્રમે યુવાવસ્થા પામી ત્યારે માતાપિતાએ વૈતાઢ પર્વત ઉપરના મેઘકૂટપુર નામના નગરના કાલસંવર નામના રાજાની સાથે પાણિગ્રહણ કરાવ્યું. मधुक्षोणीपतेर्जीव-अच्युत्वा शुक्रत्रिविष्टपात् । द्वारिकायां हरिसून , रुक्मिणीकुक्षिजोऽभवत।९२॥ यः कैटभोऽनुजस्तस्या-भवत्परमवल्लभः । भविष्यति सुतो विष्णो-विवत्याः समुद्भवः।९३॥ यो हेमरथभूपोऽभूत्स्वस्त्रीवियोगदुःखतः । कुर्वाणो ग्रथिलत्वं स, निर्माथवन्मृतिं गतः॥९४॥ मृत्वा भ्रांत्वा च नीचासु, भूयो दुःखासु योनिषु । संप्राप्य मानुषं जन्म, ती बालतपोऽकरोत९५ ततोऽसौ तपसा तेन, बभूवासुरकोटिषु । धूमकेतुश्च तेजस्वी, भूयिष्टशक्तिधारकः ॥९६॥ विमानसंस्थितोऽन्येद्य-लीलया पर्यटनसौ । त्रियामायां समायातो, द्वारिकानगरीप्रति ॥९७॥ तस्यामागच्छतस्तस्य, कौतुकस्थितचेतसः । रुक्मिण्या निलयस्योपागतं तद्विमानकं ।।९८॥ यावत्तत्र समायातं, बालेन महिमाभृता | कीलितवस्तुवत्ताव-त्सहसा तदजायत ॥९९॥ विमानं स्खलितं ज्ञात्वा, क्रोधस्तस्याभवद् द्रुतं । ततः प्रायुक्त शीघ्रस, विभंगज्ञानमात्मनः५०० तेनाज्ञासीत्स जायाया, हरणं पूर्वजन्मनः । रुक्मिण्याः कुक्षिजातेन, प्रद्युम्नेन विनिर्मितं ॥१॥ सुखेन जननीपार्श्व, ज्ञात्वा तं संस्थितं शिशु । स्वककांतापहारोत्थं, तस्य वैरमजागरीत् ॥२॥ अपाहियत वैरेण, तेनासौ धूमकेतुना । ततः केनापि नो साध, वैरं कार्य विचक्षणैः ॥३॥ वैरेण प्रबलं दुःखं, वैरेण प्रीतिनाशनं । वैरेण मानसोद्वेगो, वैरेण स्यादधोगतिः ॥४॥ श्रीसीमंधरसार्वस्य, श्रुत्वेति वचनं शुचि । सर्वेऽपि क्षमयामासु--वैरं मिथः सभासदः ॥५॥ समस्तमपि वृत्तांतं प्रद्युम्नस्य निशम्य च । नारदोऽपि जिनं नत्वा, मेघकूटपुरं ययौं ॥६॥ कालसंवरभूपोऽस्ति, तत्र वित्रस्तशात्रवः । तस्य मध्यसभामाप, मुनिर्वालदिदृक्षया ! ॥७॥ भूपेनापि समालोक्य, नारदर्षि समागतं । उत्थाय सहसा दत्तं, विनयेन स्वमासनं ॥८॥ दत्वाशिषं मुनींद्रेणो--पविष्टं शिष्टविष्टरे । भूयः प्रेमरसाद्वार्ता, ताभ्यां चक्रे परस्परं ॥९॥ क्षणमात्रं मुनिस्तत्र, स्थित्वा प्रोवाच पार्थिवं । राजस्तेंतःपुरं दृष्टु-मुत्कंठा वर्तते मम ॥१०॥ भूपः प्राह किमप्यस्ति, गोप्यं त्वत्तो मुनीश्वर ! । अत्रार्थ पृच्छसि त्वं किं, दृश्यतां दृश्यतां त्वया यत्र रेणुः पतेत्साधु--क्रमद्वयपवित्रितः । भवेयुस्तत्र भद्राणि, मद्गेहं तत्पवित्रय ॥१२॥ इति प्रोक्ते नृपेणासौ, जगामांतःपुरालयं । तमागच्छंतमालोक्यो--त्थितं कमलमालया ॥१३॥ समुत्थायासनं दत्वा, विनयेन नतस्तया । सोऽपि तद्विनयात्प्रीतः, प्रीणनीयः स कस्य न ॥१४॥ कुशलादि मिथः पृष्ट्वा, पप्रच्छ मुनिनारदः । गूढगर्भतया वत्से, यः सूतः स सुतोऽस्ति कः ॥१५॥ तेनेति कथिते राझ्या, प्रीत्या मुनिरभाष्यत । स्वामिस्तव प्रसादेन, समस्ति मे स बालकः।१६॥ ..

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322