Book Title: Shamb Pradyumna Charitra Part 01
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta

View full book text
Previous | Next

Page 294
________________ सम-८ ૨૮૭ अत्रांतरे वसंत , राजघानी स्मरेशितुः। समायातश्च पांथानां, चेतोऽनलप्रदीपकः ॥८॥ मिथोऽत्र दंपती रागं, प्रकटीकुरुतो भृशं । इत्याविःक्रियते रागः, कानने किंशुकैरपि ॥८॥ पत्रैः केचित्सुमैः केचि-त्फलैः केचिच्च पादपाः । भेजुः शोभा स्वदेहेषु, मधावेकेंद्रिया अपि।८२ सुखाप्त्या चित्तवाक्कायैः, पंचेंद्रिया नरा इव । त्रिधापि सहकारास्तु, दधुः पल्लवनश्रियं ॥८३॥ धन्यो धन्यो बसंतोऽयं, यत्प्रसादान्महीरुहाः। अपि निश्छदनाः शुष्का, भवंति नवपल्लवाः८४॥ समंतात्कांनने शोभा, दृष्ट्वा प्रमोददायिनीं । कूजितैर्जयनिःस्वाना-नीव चक्रुर्वनप्रियाः ॥८५॥ भाविनी सौरभावाप्ति-रथास्माकं महावने । इति गुजारवैर्मत्ता, गानं कुर्वति षट्पदाः ॥८६॥ कुत्रचिदंपती क्रीडां, प्रकुर्वाते बनावनौ । कुत्रचित्पुरुषा एव, कामिन्य एव कुत्रचित् ॥८७॥ मनुष्याणां मृगाक्षीणां, पादपानामपि स्फुटं । अजायत रसोत्पत्ति-वसंतसमयागमे ॥८८॥ एकं तु मधुभूपस्य, करीरस्येव विग्रहे। कथंचिदपि नो जातो, रसप्रादुर्भवः क्षण।।८९॥ भवेत्सुंदरतायोगा-दभीष्टेंदुप्रभा मधौ । तत्रैव तदभावेन, महादुःखोऽभवन्मधुः ॥९॥ अतिशुष्कंधनेनैव, तेन दुःखेन भूयसा । इंद्रियायतने तस्य, जज्वाल विरहानलः ॥९१॥ यथा यथातिनिःश्वासोच्छ्वासा भवंति तन्मुखे । स प्रावर्धत तैरेव, वातरूपैत्तथा तथा ॥१२॥ केनचित्तत्र पुष्पाणि, मालतीसंभवानि च । केनचिजातिजातानि,रंभादलानि केनचित् ॥१३॥ केनचिन्नागवल्लीनां, पत्राणि तन्मुखे भृशं । केनचित्सहकाराणां, मंजर्यस्तत्फलानि च ॥१४॥ चंदनानां सुगंधीनां, कर्पूराणां शशित्विषां । सलिलानि सुसीमानि, केनचिद्भक्तिभाजिना ॥९५॥ केनचित्तालतानां, संपादिताः समीरणाः । कंठे मौक्ताफला हाराः, केन चित्परिधापिताः ॥१६॥ केनचित्सूक्ष्मवस्त्राणि, पट्टकूलानि केनचित् । देवदूष्याण्युदाराणि, ढौकितानि च केनचित् ।।९७॥ इति नानाप्रकाराणि, वस्तूनि यानि यानि तु । तस्योपशांतये दत्ता-न्यभूवंस्तान्यशर्मणे ॥९८॥ यथा विषयिणो धर्म-वार्तापि च विषायते । तथा वियोगिनस्तस्य, तत्सर्वमप्यभूद्विषं ॥९९॥ प्रथमं तु स्वयं नाम्ना, मधुभूपो द्वितीयकः । मधुरेवागतस्तेनो-द्दीदीपे विरहोऽधिकः ॥२००॥ ततोऽसौ विकलात्मेवा-भवच्छून्यमना नृपः । तस्य दुःखेन दुःखाढया, जाताः सर्वेऽपि नागराः।१ तथापि न गृहे तस्य, समेतः सामवायिकः । समाधि वपुषः प्रष्टुं, पूर्ववाक्यानि संस्मरन ॥२॥ नवमीदशमीकामा-वस्थामध्यगतोऽन्यदा । मुमूर्षः स्वजनभू मी, मुक्तोऽन्नपानमोचनात् ॥३॥ भूपभृत्या द्रुतं गत्वा, स्वरूपं मंत्रिणोऽभ्यधुः। घीसखोऽपि तदाकण्ये, समाययौ नृपालये ॥४॥ समेत्य च नमस्कृत्य, विविक्त सुप्तमीश्वरं । यावत्तिष्ठति तावत्स, तेन सन्मुखमीक्षितं ॥५॥ दृष्ट्वाऽवोचन्नृपो मंत्रिन् , विद्यते भवतः सुखं । दुःखात्स प्रत्यवग्नाथ, भविता तन्मृते मयि ॥६॥ । राज्ञः स्वरूपमालोक्य, विरूपं मंत्र्यचिंतयत् । किं कुर्वे कुत्र गच्छामि, पुरः कस्य ब्रवीम्यहं ॥७॥

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322