________________
सम-८
૨૮૭
अत्रांतरे वसंत , राजघानी स्मरेशितुः। समायातश्च पांथानां, चेतोऽनलप्रदीपकः ॥८॥ मिथोऽत्र दंपती रागं, प्रकटीकुरुतो भृशं । इत्याविःक्रियते रागः, कानने किंशुकैरपि ॥८॥ पत्रैः केचित्सुमैः केचि-त्फलैः केचिच्च पादपाः । भेजुः शोभा स्वदेहेषु, मधावेकेंद्रिया अपि।८२ सुखाप्त्या चित्तवाक्कायैः, पंचेंद्रिया नरा इव । त्रिधापि सहकारास्तु, दधुः पल्लवनश्रियं ॥८३॥ धन्यो धन्यो बसंतोऽयं, यत्प्रसादान्महीरुहाः। अपि निश्छदनाः शुष्का, भवंति नवपल्लवाः८४॥ समंतात्कांनने शोभा, दृष्ट्वा प्रमोददायिनीं । कूजितैर्जयनिःस्वाना-नीव चक्रुर्वनप्रियाः ॥८५॥ भाविनी सौरभावाप्ति-रथास्माकं महावने । इति गुजारवैर्मत्ता, गानं कुर्वति षट्पदाः ॥८६॥ कुत्रचिदंपती क्रीडां, प्रकुर्वाते बनावनौ । कुत्रचित्पुरुषा एव, कामिन्य एव कुत्रचित् ॥८७॥ मनुष्याणां मृगाक्षीणां, पादपानामपि स्फुटं । अजायत रसोत्पत्ति-वसंतसमयागमे ॥८८॥ एकं तु मधुभूपस्य, करीरस्येव विग्रहे। कथंचिदपि नो जातो, रसप्रादुर्भवः क्षण।।८९॥ भवेत्सुंदरतायोगा-दभीष्टेंदुप्रभा मधौ । तत्रैव तदभावेन, महादुःखोऽभवन्मधुः ॥९॥ अतिशुष्कंधनेनैव, तेन दुःखेन भूयसा । इंद्रियायतने तस्य, जज्वाल विरहानलः ॥९१॥ यथा यथातिनिःश्वासोच्छ्वासा भवंति तन्मुखे । स प्रावर्धत तैरेव, वातरूपैत्तथा तथा ॥१२॥ केनचित्तत्र पुष्पाणि, मालतीसंभवानि च । केनचिजातिजातानि,रंभादलानि केनचित् ॥१३॥ केनचिन्नागवल्लीनां, पत्राणि तन्मुखे भृशं । केनचित्सहकाराणां, मंजर्यस्तत्फलानि च ॥१४॥ चंदनानां सुगंधीनां, कर्पूराणां शशित्विषां । सलिलानि सुसीमानि, केनचिद्भक्तिभाजिना ॥९५॥ केनचित्तालतानां, संपादिताः समीरणाः । कंठे मौक्ताफला हाराः, केन चित्परिधापिताः ॥१६॥ केनचित्सूक्ष्मवस्त्राणि, पट्टकूलानि केनचित् । देवदूष्याण्युदाराणि, ढौकितानि च केनचित् ।।९७॥ इति नानाप्रकाराणि, वस्तूनि यानि यानि तु । तस्योपशांतये दत्ता-न्यभूवंस्तान्यशर्मणे ॥९८॥ यथा विषयिणो धर्म-वार्तापि च विषायते । तथा वियोगिनस्तस्य, तत्सर्वमप्यभूद्विषं ॥९९॥ प्रथमं तु स्वयं नाम्ना, मधुभूपो द्वितीयकः । मधुरेवागतस्तेनो-द्दीदीपे विरहोऽधिकः ॥२००॥ ततोऽसौ विकलात्मेवा-भवच्छून्यमना नृपः । तस्य दुःखेन दुःखाढया, जाताः सर्वेऽपि नागराः।१ तथापि न गृहे तस्य, समेतः सामवायिकः । समाधि वपुषः प्रष्टुं, पूर्ववाक्यानि संस्मरन ॥२॥ नवमीदशमीकामा-वस्थामध्यगतोऽन्यदा । मुमूर्षः स्वजनभू मी, मुक्तोऽन्नपानमोचनात् ॥३॥ भूपभृत्या द्रुतं गत्वा, स्वरूपं मंत्रिणोऽभ्यधुः। घीसखोऽपि तदाकण्ये, समाययौ नृपालये ॥४॥ समेत्य च नमस्कृत्य, विविक्त सुप्तमीश्वरं । यावत्तिष्ठति तावत्स, तेन सन्मुखमीक्षितं ॥५॥ दृष्ट्वाऽवोचन्नृपो मंत्रिन् , विद्यते भवतः सुखं । दुःखात्स प्रत्यवग्नाथ, भविता तन्मृते मयि ॥६॥ । राज्ञः स्वरूपमालोक्य, विरूपं मंत्र्यचिंतयत् । किं कुर्वे कुत्र गच्छामि, पुरः कस्य ब्रवीम्यहं ॥७॥