________________
सा-७
૨૬૧
मुनीशोऽन्येधुरुद्याने, बहुभिः साधुभिः सह । महेंद्रस रिस्कृष्ट-क्रियावान समवासरत् ॥५२॥ वसंततौं समायाते, दलैश्च कुसुमैः फलैः।प्रेक्षणीया यथा शोभा, काननस्य प्रजायते ॥५३॥ अचिंत्यशक्तिसंयुक्ता-न्मु नीश्वरप्रभावतः।वने तत्र तथा साभू-च्चमत्कारविधायिनी ॥५४॥ काननस्य स्वकीयस्य, शोभा समीक्ष्य तादृशीं।अदृष्टचरमेतकिं, वनेश इति विस्मितः ॥५५॥ कश्चिदिव्यानुभावोऽय–मिति जानन्नितस्ततः।यावत्समीक्ष्यते ताव—दपश्यत्स मुनिप्रभुम् ॥५६॥ ददानं देशनां क्लेश-नाशिनी संघसंसदितं दृष्ट्वा वनपालोऽपि,प्रणाममकरोन्मुदा ॥५७॥ प्रणम्य मुनिनाथं तं, वक्तुं वसुमतीपतेः । कुसुमादि स आदाय, ययौ हर्षप्रकर्षतः ॥५८॥ आगत्य पार्थिवागार-द्वारं दौवारिकस्य च । दत्वा पुष्पादिकं किचि-न्मध्यं तेन समागतं ॥५९॥ पुरतः प्राभृतं मुक्त्वा, कृत्वा प्रणाममादरात् । वनपालः क्षमापाल—मवीवदत्सभास्थितं ॥६॥ प्रभो पत्रप्रसूनोद्य-त्फलैर्धाजति कानने । मुनीश्वरः समेतोऽस्ति, यतिसंततिसंयुतः ॥६१।। समाकर्ण्य महीशोऽपि, साधोस्तत्र समागमं । तस्य दत्वा बहु द्रव्य-मभूद्वंदितुमुत्सुकः ॥६२॥ भेरीभांकारयोगेन, मेलयित्वा पुरीजनान् । चचाल विपुलापालो, भक्तितो वंदितुं गुरुं ॥६३॥ मार्गे प्रमोदयन लोकानू , महत्तमसमृद्धिभिः। आययौ यावद्युद्यान-संनिधाने भुवो विभुः ॥६४॥ तावद्भूपतिचिह्नानि, परित्यज्य स्वभक्तये।विवेश वनमध्येऽसौ, विनयी हि नयी नृषः ॥६५॥ समागत्य च सूरींद्रो-पांते दत्वा प्रदक्षिणां । विधातुं मानवं जन्म, सफलं प्रणनाम सः ॥६६॥ श्रोतुकामो मुनिस्वामि-वचनं दुःखमोचनं । सभायां संघपूर्णायां, यथास्थानमुपाविशत् ॥६७॥ रम्या मुनीश्वरेणापि, प्रारेभे पुण्यदेशना । संसारसुखसताना-मपि मोक्षपदेशना ॥६८॥ निशम्य देशनां सुरि--पवित्रवक्त्रसंभवां । आनंदितो नृपोऽप्राक्षीत, कर्मबंधनिबन्धनं ॥६९॥ कथमुत्पद्यते कर्म?, कथं कर्म समेधते ? । तिष्ठति वा कथं कर्म ?, कर्म प्रक्षीयते कथं ? ॥१०॥ मुनिराजस्तदाजल्प-दाकर्णय महीपते ! । कर्मणां प्रकृतिः प्राज्या, वर्तते जिनशासने ॥७१॥ सप्तपंचाशता कर्म प्रादुर्भवति हेतुभिः । परिणामेन तीव्रण, तत्करणेन च वर्धते ॥७२॥ मिथ्यात्वेन च तुत्कर्म, तिष्ठत्यनेहसं बहु । क्षीयते शुद्धसम्यक्त्व—पालनेन निरंतरं ॥७३॥ मिथ्यात्वेन च द्वा-दशाविरतयः पुनः । पंचविंशतिः कषाया, योगाः पंचदशस्मृताः ॥७४॥ आभिग्रहिकमिथ्यात्व-मनाभिग्नहिकं तथा । आभिनिवेशिकं भूयः, सांशयिकमामि स्फुटं ॥७५॥ अनाभोगिकनाम स्या-मिथ्यात्वं पंचधेरितं । तीर्थकरैर्नराधारैः, केवलज्ञानभानुभिः ॥७६॥ यो जिनोक्तपृथक्त्वेन, सर्वप्रकारको ग्रहः । दर्शनस्य निजस्यैव, तदाभिग्रहिकं भवेत् ॥७७॥ अवक्रेण स्वभावेन, स्वकीयदर्शनेऽपि च । स्वान्यदेवगुरुराग्रो-ऽनाभिग्रहिकमीरितं ॥७८॥ जाननपि जिनोक्तानि तत्त्वानि स्वमनीषया । यो नापि घटयेदर्थी-स्तत्स्यादाभिनिवेशिकं ॥७९॥ .
HHHUTHALI