Book Title: Shamb Pradyumna Charitra Part 01
Author(s): Sulochanashreeji
Publisher: Amitbhai S Mehta

View full book text
Previous | Next

Page 283
________________ ૨૭૬ શાંખ--પ્રદ્યુમ્ન ચાસ્ત્ર પાણી અને છેલ્લે ચાલનારાઓ માટે પેાતાની તૃષા શાંત કરવા માટે કાદવ બાકી રહેતા! અર્થાત્ સૈન્યની તૃષા છીપાવવા માટે સરોવરો પણ એછા પડતાં. ઘેાડાની પૂરીએથી ઉખડેલી રજના કારણે સૂર્ય પણ ઢંકાઈ જતા. આટલા મોટા વિપુલ સૈન્ય સાથે મધુરાજા શત્રુ રાજાઓને નમાવતા વડપુર નગરીની નજીકમાં આવ્યા. 1 " आगमं मधुभूपस्य श्रुत्वा हेमरथेश्वरः । निजां ज्ञापयितु सेवां, संमुखः समुपेयिवान् ॥३९॥ आगत्य भूरिभक्त्या स प्राणमन्मधुभूभुजं । उत्तमाः सहजेनैव भवेयुर्हि प्रणामिनः ||४०|| तं समालिंगयामास, मधुभ्रूपोऽपि हर्षतः । उभयोर्मिलनेनैव प्रीतिर्बभूव भूयसी ॥४१॥ विनयान्मधुभूपालं, हेमरथो व्यजिज्ञपत् । क्रमयो रेणुभिः स्वामि-स्त्वं पवित्रय मत्पुरं ॥४२॥ आदरै रंजितो राजा, पुण्यदाक्षिण्यसंगतः । तद्वाक्यमुररीचक्रे प्रीतिसंसूचनाय च ॥ ४३ ॥ तोरणैः केतुभिर्धृप - घटीभिः पुष्पदामभिः । वस्त्रैराभणै राज्ञा सर्व शृंगारितं पुरं ॥४४॥ वादित्राणाममात्राणां, बंदीनां च शुभस्वनैः । प्रवेशं कारयामास, हेमरथो नृपं पुरे ॥४५॥ प्रावेश्य स्वगृहे नीत्वा स्वकीयास्थान मंडपे । सिंहासने च सौवर्णे, स्थापयामास तं नृपं ॥ ४६ ॥ पुरतस्तस्य भूपस्य, प्रौढप्राभृतहेतवे । हेमरथेन मुक्तानि वस्तून्यभिनवानि च ॥४७॥ सद्ममध्ये समागत्य, प्रजजल्प नृपः प्रियां । वल्लभे त्वं स्वयं गत्वा वर्धापय मधुप्रभुम् ||४८ || नामनेंदुप्रभया प्रोचे, मुखेन्दुप्रभया तदा । स्वामिन् मनोहरं यद्य - द्वस्तु स्यान्निजसद्मनि ॥४९॥ तत्सर्वमपि भूपाल- दृग्गोचरे न पात्यते । तत्समीक्ष्य यतस्तस्य लोचने चलतो द्रुतं ॥ ५० ॥ ततस्तव प्रियाः संति, प्राज्या रूपगुणान्विताः । कांचित्प्रेषय तन्मध्या-दूर्धापयितुमीश्वरं ॥ ५१ ॥ इति तद्वचनं श्रुत्वा वदटपुरेश्वरः । विरुद्धं वचनं देवि त्वयका किं निरूप्यते ॥५२॥ आवयोस्तात सोदर्य - सन्निभोऽयं मधुप्रभुः । भूयिष्टा स्त्वादृशो दास्यो, भविष्यत्यस्य भूपतेः ॥ ५३ ॥ ततस्त्वमेव गत्वाशु, विधाय रचनां वरां । मुक्ताफलाक्षतैः कांतैः - वर्धापय नरेश्वरं ॥ ५४ ॥ विरुद्धं पतिना किंचि - त्सहसा विनिवेदितं । कुलीना कामिनी वेत्ति, तद्वचनं तथा हृदि ॥ ५५ ॥ ज्ञात्वापि चैकशस्तत्स्व - भर्तुः प्रतिनिवेदयेत् । स वक्ति चेत्कुरुष्व त्वं, सा करोत्येव तद्वचः ॥५६॥ ज्ञात्वेति भर्तृवाक्येन, वर्धापनाय भूपतेः । अंगे षोडशश्रृंगारान् परिधाय गता सभां ॥५७॥ समागत्य तयात्मीय - भर्त्रा सह मधुप्रभुः । स्वस्तिकं पूरयित्वाग्रे, वर्धापितोऽक्षतादिभिः ॥५८॥ किमसार्वशी रंभा, सुरी किमसुरी परा । किं सावित्री रमा किं, वा, गौरी पातालसुंदरी ॥ ५९ ॥ तस्या वर्धापयंत्याच, निरीक्ष्य रूपमद्भुतं । इदृश्योऽपि भवेयुः किं नार्यः स इत्यचिंतयत् ॥ ६० ॥ भवेद्यदीदृशी नारी, मर्त्यलोके मनोहरा । स एव तर्हि धन्यो यो, भोगान् भुंक्तेऽनया समं ॥ ६१ ॥ एतस्या वदनोद्भुतं सुधाश्रावि बचोऽनिशं । यः समाकर्णयेन्मर्त्य —– स्तस्य श्रोत्रे कृतार्थिनी ॥ ६२ ॥ "

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322