Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
....... मूलं [१५४] / गाथा ||१२५-१३२|| ........
प्रत सूत्रांक
[१५४]
गाथा: ||--||
निष्पकम्पत्वात् , ज्वलनसमा तपस्तेजोमयत्वात् , तृणादिष्विव सूत्रार्थेष्वतृप्तेः, सागरसमो गम्भीरत्वाद् ज्ञानादिरत्नाकरत्वात् खमर्यादानतिक्रमाच, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुगणसमः सुखदुःखयोरदर्शितविकारत्वात्, भ्रमरसमोऽनियतवृत्तित्वात्, मृगसमः संसारभयोद्विग्नत्वात् , धरणिसमः सर्वखेदसहिष्णुत्वात् , जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तव॑वृत्तेः, रविसमा धर्मास्तिकायादिलोकमधिकृत्याविशेषेण प्रकाशकत्वात्, पवनसमश्च सर्वत्राप्रतिवद्धत्वात् , स एवंभूतः श्रमणो भवतीति गाधार्थः । यथोक्तगुणविशिष्टश्च श्रमणस्तदा भवति यदा शोभनं मनो भवेदिति दर्शयति-तो समणों'गाहा, व्याख्या-ततः श्रमणो यदि द्रव्यमन आश्रित्य सुमना भवेत्, "भावन च' भावमनश्चाश्रित्य यदि न भवति पापमनाः, सुमनस्त्वचिहान्येव श्रमणगुणत्वेन दर्शयति-खजने च-पुत्रादिके जने च-सामान्ये समो-निर्विशेषः। मानापमानयोश्च सम इति गाथार्थः ॥ इह च ज्ञानक्रियारूपं सामायिकाध्ययनं नोआगमतो भावसामायिकं भवत्येव, ज्ञानक्रियासमुदाये आगमस्यैकदेशवृत्तित्वात्, नोशब्दस्य च देशवचनवाद्, एवं च सति सामायिकवतः साधोरपीह नोआगमतो भावसामायिकत्वेनोपन्यासो न विरुध्यते, सामायिकतद्बतोरभेदो। पचारादिति भावः ॥ नामनिरूपन्नो निक्षेपः समाप्तः ॥ अथ सूत्रालापकनिष्पन्नं निक्षेपं निर्दिदिक्षुराह
मास्त्रीदं प्र. २ गुणरत्मपरिपूर्णत्वाद् ज्ञानादिगुणैरगायत्वादा स.प्र.३ संसार प्रति नियोद्विमत्वात् प्र. ४ सर्वसहत्वात् प्र.५ निष्पकत्वात् पङ्कजलस्थानीयमाकामभोगोपरिश्तेरियर्थः प्र.६ तमोविघातकत्वात् प्र.
दीप अनुक्रम [३२५-३३६]
RAKESARE*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~524~

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560