Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 542
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) ....... मूलं [१५६] / गाथा ||१३६-१४१|| ........ प्रत सूत्रांक [१५६] गाथा: ||१-६|| वाचकभेदेनापरापरान् वाच्यविशेषान् समभिरोहति-समभिगच्छति प्रतिपद्यत इति समभिरूढा, अपमत्र भावार्थ:-इन्द्रशक्रपुरन्दरादिशब्दान् अनन्तरं शन्दनयेन एकाभिषेयत्वेनेष्टानसी विशुद्धतरत्वात् प्रत्येकं|8/ दाभिन्नाभिधेयान् प्रतिपद्यते, भिन्नप्रवृत्तिनिमित्तत्वात् , सुरमनुजादिशब्दवत्, तथाहि-इन्दतीति इन्द्रः शक्रो-| तीति शक्रः पुरं दारयतीति पुरन्दरः, इह परमैश्वर्यादीनि भिन्नान्येवात्र प्रवृत्तिनिमित्तानि, एवमप्येकार्थत्वे | 31 अतिप्रसङ्गो, घटपटादिशब्दानामप्येकार्थताऽऽपत्तेः, एवं च सति यथा इन्द्रशब्दः शक्रशब्देन सहकार्थ उच्यते तदा वस्तुनः परमैश्वर्यस्य शकनलक्षणे वस्त्वन्तरे सङ्कमणं कृतं भवति, तयोरेकत्वमापादितं भवतीत्यर्थः, तिचासम्भविवादवस्तु, न हि य एव परमैश्वर्यपर्यायः स एव शकनपर्यायो भवितुमर्हति, सर्वपर्यायसाङ्कर्या पत्तितोऽतिमसङ्गादित्यलं विस्तरेण, उक्तः समभिरूढः । 'वंजणअत्थे' त्यादि, यत्क्रियाविशिष्टं शब्देनोच्यते तामेव क्रियां कुर्वद्वस्त्वेवंभूतमुच्यते, एवं-या शब्देनोच्यते चेष्टाक्रियादिकः प्रकारस्तमेवं भूतं-प्राप्समितिकृत्वा, सतश्चैवंभूतवस्तुप्रतिपादको नयोऽप्युपचारादेवंभूतः, अथवा एवं-यः शब्देनोच्यते चेष्टाक्रियादिकः प्रकार-17 स्तद्विशिष्टस्यैव वस्तुनोऽभ्युपगमात्तमेवं भूत:-प्राप्त एवंभूत इत्युपचारमन्तरेणापि व्याख्यायते, स एवंभूतो, दिनयः किमित्याह-व्यज्यतेऽर्थोऽनेनेति व्यञ्जनं-शब्दः अर्थस्तु-तदभिधेयवस्तुरूपः, व्यञ्जनं चार्थश्च व्यञ्जनार्थी तीच ती तदुभयं चेति समासः, व्यञ्जनार्थशब्दयोर्व्यस्तनिर्देशः प्राकृतत्वात् तद्व्यञ्जनार्थतदुभयं विशेषयति-17 ४ नैयत्येन स्थापयति, इदमत्र हृदयम्-शब्दमर्थनार्थं च शब्देन विशेषयति, यथा 'घट चेष्टायां घटते योषिन्म-18 AAAAAAAS दीप अनुक्रम [३४३-३५०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~542~

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560