Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
...... मूलं [१५५] / गाथा ||१३३-१३४|| ........
प्रत
वृत्ति
अनुयो मलधा
सूत्रांक
रीया
अनुगमा
[१५५]
गाथा: ||१-२||
HEART
अनुगमः-पूर्वोक्तशब्दार्थः, स च द्विधा-सूत्रानुगम:-सूत्रव्याख्यानमित्यर्थः, 'निर्युक्त्यनुगमश्च नितरां युक्ताःला -सूत्रेण सह लोलीभावेन सम्बद्धा निर्युक्ता-अर्थास्तेषां युक्तिः-स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य । उपक्रमे लोपानियुक्ति-नामस्थापनादिप्रकार: सूत्रविभजनेत्यर्थः, तद्रूपोऽनुगमस्तस्था वा अनुगमो-व्याख्यानं नियुक्त्यनुगमः, स च विविधो-निक्षेपो-जामस्थापनादिभेदभिन्नः तस्य तद्विषया वा नियुक्ति:-पूर्वोक्तशब्दार्था निक्षेपनियुक्ति, तद्रूपस्तस्या वाऽनुगमो निक्षेपनियुक्त्यनुगमः । तथा उपोदूधननं-व्याख्येयस्य सूत्रस्य व्याख्यामाविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा नियुक्तिस्तद्रूपस्तस्या वा अनुगमः उपोद्घातनियुक्त्यनुगमः,
तथा सूत्रं स्पृशतीति सूत्रस्पर्शिका सा चासी नियुक्तिश्च सूत्रस्पर्शिकनियुक्तिः। सूत्रनिक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, इदमुक्तं भवति-अत्रैव प्रागावश्यकसामायिकादिपदानां नामस्थापनादिनिक्षेपद्वारेण पद्व्याख्यानं | कृतं तेन निक्षेपनियुक्त्यनुगमोऽनुगतः-प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेपप्रस्तावे पुनर्वक्ष्यते च । उपोदूधातनिर्युक्त्यनुगमस्त्वाभ्यां द्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा-'उद्देसे'गाहा 'किं कहविहंगाहा, व्याख्या-उद्देशनमुद्देशः-सामान्याभिधानरूपो, यथा अध्ययनमिति, वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो-विशेषाभिधानं, यथा सामायिकमिति, अब्राह-ननु सामान्यविशेषाभिधानद्वयं निक्षेपद्वारे पोक्तमेव, तस्किमितीह पुनरुच्यते?, नैतदेवं, यतोऽत्र सिद्धस्यैव तत्र तस्य निक्षेपमात्राभिधानं कृत- २५॥ मित्यदोषः । तथा निर्गमनं-निर्गमः, कुतः सामायिक निर्गतमित्येवरूपो वक्तव्या, तथा क्षेत्रकालीच ययोः
दीप अनुक्रम [३३७-३४०
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~527~

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560