SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) ...... मूलं [१५५] / गाथा ||१३३-१३४|| ........ प्रत वृत्ति अनुयो मलधा सूत्रांक रीया अनुगमा [१५५] गाथा: ||१-२|| HEART अनुगमः-पूर्वोक्तशब्दार्थः, स च द्विधा-सूत्रानुगम:-सूत्रव्याख्यानमित्यर्थः, 'निर्युक्त्यनुगमश्च नितरां युक्ताःला -सूत्रेण सह लोलीभावेन सम्बद्धा निर्युक्ता-अर्थास्तेषां युक्तिः-स्फुटरूपतापादनम् एकस्य युक्तशब्दस्य । उपक्रमे लोपानियुक्ति-नामस्थापनादिप्रकार: सूत्रविभजनेत्यर्थः, तद्रूपोऽनुगमस्तस्था वा अनुगमो-व्याख्यानं नियुक्त्यनुगमः, स च विविधो-निक्षेपो-जामस्थापनादिभेदभिन्नः तस्य तद्विषया वा नियुक्ति:-पूर्वोक्तशब्दार्था निक्षेपनियुक्ति, तद्रूपस्तस्या वाऽनुगमो निक्षेपनियुक्त्यनुगमः । तथा उपोदूधननं-व्याख्येयस्य सूत्रस्य व्याख्यामाविधिसमीपीकरणमुपोद्घातस्तस्य तद्विषया वा नियुक्तिस्तद्रूपस्तस्या वा अनुगमः उपोद्घातनियुक्त्यनुगमः, तथा सूत्रं स्पृशतीति सूत्रस्पर्शिका सा चासी नियुक्तिश्च सूत्रस्पर्शिकनियुक्तिः। सूत्रनिक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यते च, इदमुक्तं भवति-अत्रैव प्रागावश्यकसामायिकादिपदानां नामस्थापनादिनिक्षेपद्वारेण पद्व्याख्यानं | कृतं तेन निक्षेपनियुक्त्यनुगमोऽनुगतः-प्रोक्तो द्रष्टव्यः, सूत्रालापकानां नामादिनिक्षेपप्रस्तावे पुनर्वक्ष्यते च । उपोदूधातनिर्युक्त्यनुगमस्त्वाभ्यां द्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा-'उद्देसे'गाहा 'किं कहविहंगाहा, व्याख्या-उद्देशनमुद्देशः-सामान्याभिधानरूपो, यथा अध्ययनमिति, वक्तव्य इति सर्वत्र क्रिया द्रष्टव्या, तथा निर्देशनं निर्देशो-विशेषाभिधानं, यथा सामायिकमिति, अब्राह-ननु सामान्यविशेषाभिधानद्वयं निक्षेपद्वारे पोक्तमेव, तस्किमितीह पुनरुच्यते?, नैतदेवं, यतोऽत्र सिद्धस्यैव तत्र तस्य निक्षेपमात्राभिधानं कृत- २५॥ मित्यदोषः । तथा निर्गमनं-निर्गमः, कुतः सामायिक निर्गतमित्येवरूपो वक्तव्या, तथा क्षेत्रकालीच ययोः दीप अनुक्रम [३३७-३४० पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: ~527~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy