Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
मतः स्वशिष्येभ्यः सर्व शून्यमिति उपदेशे कृते यैः शिष्यैस्तदेव यथार्थत्वेन परिगृहीतं न तदुपर्याक्षेपः कृतोऽतस्ते मध्यमबुद्धित्वान्माध्यमिकेत्याख्यां प्रापुः । इत्थं हि तेषामा. शयः-सर्व क्षणिक, सर्व दुःखं, सर्व स्वलक्षणं, सर्व शून्यम् , इति भावनाचतुष्टयोपदेशेन क्रमेण सर्वस्थायित्वानुकूलवेदनीयत्वसर्वानुगतत्वसर्वसत्यत्वानां निराकरणेन सर्वशून्यत्वमेव गुरुणा बोधिता वयमिति । अतः सर्वशून्यत्ववादिन एते ।
अपरे शिष्याः पुनः कथं सर्वस्य शून्यत्वमवगन्तुं शक्यम् । तथा सति ज्ञानस्यापि शून्यत्वेन जगदान्ध्यं प्रसज्येत । अतो बाह्यार्थस्य शून्यत्वमस्तु नामेत्यूचुः । शिष्येणहि द्वयं करणीयं योग आचारश्चेति । तत्राज्ञातार्थस्य ज्ञानायाऽऽक्षेपो योगः । गुरूक्तार्थस्याङ्गीकरणमाचारः । ततश्च यैः शिष्यैर्गुरूक्तं भावनाचतुष्टयं बाह्यार्थशून्यत्वं चाङ्गीकृत्य सर्वस्य शून्यत्व आक्षेपः कृतस्ते योगाचार इति प्रथां जग्मुः। अत एते बाह्यार्थशून्यत्ववादिनो विज्ञानमात्रास्तित्ववादिनचोच्यन्ते । एतेषामयमभिप्रायः-अनादिवासनावशाबुद्धिरेवानेकाकारेण भासत इति प्रागुक्तगुरूपदिष्टभावनाचतुष्टयपरिचयबलात्सर्ववासनोच्छेदे विविधविषयाकारोपद्रवानुदयाद्विशुद्धज्ञानोदयो मोक्षः संपद्यत इति ।
अन्ये तु-नीलादेर्वाह्यार्थस्यासत्त्वे विज्ञानमात्रास्तित्वं वक्तुमशक्यम् । ततो बाह्यार्थोऽप्यङ्गीकरणीय एवेति प्राहुः । ततो गुरुणा भवतु नाम बाह्यार्थः परंतु. न स प्रत्यक्षः किं त्वनुमेय इत्युक्त कियत्पर्यन्तं सूत्रं भवेदिति पृष्टत्वात्ते सौत्रान्तिकसंज्ञया । प्रसिद्धाः । सूत्रान्तं पृच्छन्ति ते सौत्रान्तिकाः । । पृच्छतौ सुस्नातादिभ्यः ' इति प्राग्वहतीयष्ठक्प्रत्ययः । अत एते बाह्यार्थानुमेयत्ववादिन इत्युच्यन्ते । ___ परे च केचिच्छिष्या एवमूचुः-यथा चानुभवबलाबाह्यार्थो घटपटादिरुररी क्रियते तथा प्रत्यक्षबलात्तस्यार्थस्य प्रत्यक्षत्वमप्यङ्गीकरणीयम् । एवं च बाह्येष्वान्तरेषु चार्थेषु प्रत्यक्षेषु सत्सु यत्कांश्चित्प्रथमं सर्व शून्यमित्युपदिष्टवान्गुरुः । तदनन्तरं कांश्चिद्विज्ञानमेव सदिति । ततः कांश्चिच्चोभयं बाह्यमान्तरं च सदित्यभिप्रेत्यावस्थितान्विज्ञेयमनुमेयं चेति । सेयं गुरोविरुद्धा भाषेति ब्रुवाणा वैभाषिकाख्यया ख्याताः । अत एवैते बाह्यार्थप्रत्यक्षत्ववादिनः सर्वास्तित्ववादिनश्चीच्यन्ते ।
त ऐते जगन्मूलकारणत्वेन पार्थिवाप्यतैजसवायवीयांश्चतुर्विधान्परमाणून्परिकल्प्य सेषु किंचित्स्थायि सुखदं सामान्यलक्षणं सत्यं वाऽनिमालयन्तः सर्व क्षणिकं सर्व दुःखं सर्वं स्वलक्षणं सर्व शून्यं चेति भावनाचतुष्टयं स्वीकुर्वन्ति ।
तथैतेषां मते ह्यार्यसत्याख्यं दुःखसमुदायमार्गनिरोधभेदाच्चतुर्विधं तत्त्वम् ।
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 220