Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
[४] तनाम्नैव व्यवहरन्ति । अन्यत्सर्व नारायणस्मरणमिति वदन्तश्च सांसारिकसंबन्धादेनि. वृत्तिं सूचयन्ति । तस्मात्पञ्चदश्यारम्भे केवलं नमस्कार्यत्वेन श्रीशंकरानन्दगुरूल्लेखनं ग्रन्थकर्तुस्तदानीं चतुर्थाश्रमवर्तित्वं स्पष्टमेवावगमयति । ... . . एवं वेदभाष्यपराशरमाधवकालमाधवजैमिनीयन्यायमालावैयासिकन्यायमालाप्रभृतिग्रन्थेष्वपि कर्तृत्वेन माधवनामोल्लेखनं तत्तद्ग्रन्थप्रणयनसमये ग्रन्थकर्तुः संन्यासदीक्षानधिष्ठितत्वं सूचयतीतिबोध्यम् ।
यद्यपि मुद्रितशंकरदिग्विजयग्रन्थे शिरोभागे ' विद्यारण्यविरचितः' इत्युल्लेखो · दृश्यते तथाऽपि तथोल्लेखे चतुर्थाश्रमग्रहणोत्तरं तद्विरचितत्वे च न दृढतरं प्रमाणं. प. श्यामः । प्रत्युत प्रतिसर्गसमाप्तौ ' इति श्रीमाधवीये' इत्युक्तत्वेन संन्यासस्वीकरणा. प्राग्भाविमाधवसमाख्यालक्षितस्यैव तत्र कर्तृत्वेन प्रतिपादनात्सर्वदर्शनसंग्रहवच्छंकरदिग्विजयग्रन्थोऽपि भगवल्लिङ्गधारणावस्थातः प्रागेव निरमायीति निश्चीयते ।
युक्तं चैतत् । यतो जैमिनीयन्यायमालाविस्तरो माधवाचार्येण दण्डस्वीकरणात्पूर्वमेव प्रणीत इति तावन्निर्विवादम् । तत्र स्वस्य वीरबुक्कसंबन्धित्वेनाभिधानात् । वरि. बुक्कसंबन्धश्च चरमाश्रमस्वीकारपर्यन्तमेव । न तदुत्तरमनुवर्तितुमुत्सहते । तदानीं मनःसंकल्पपूर्वकं तस्य परित्यक्तव्यत्वात् । तथा च जैमिनीयन्यायमालाविस्तरग्रन्थारम्भे--
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । इति यत्प्रणम्यत्वेन गुरोरभिधानं न तद्दीक्षाग्राहकगुरुविषयकम् । तदानीं दीक्षाया एवाभावात् । किंतु विद्याग्राहकगुरुविषयकमेवेति वक्तव्यम् । तदेव च पद्यार्धे शंकरदिग्विजयग्रन्थारम्भे दृश्यते । तद्यथा--
प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् ।
प्राचीनशंकरजये सारः संगृह्यते स्फुटम् ॥ इति । एवं च गुरूलेखनस्य विद्याग्राहकगुरुविषयत्वेनान्यथामिद्धेत्रि पञ्चदश्यामिव पारिवाज्याङ्गीकरणानन्तरं विरचितत्वे किंचिदनन्यथासिद्धं लिङ्गं दृष्टिपथं समारोहति । एवं च शंकरदिग्विजयोऽपि माधवाचार्येण भगवल्लिङ्गस्वीकारणात्प्रागेव विरचित इति मे मतिः । एतद्विषय इतिहाससंशोधकैर्युक्तायुक्तं विचार्यम् । प्रमादश्चेत्क्षन्तव्यम् ।
इह खलु जगति हिरण्यगर्भप्रभृतिस्तम्बपर्यन्तः सर्वोऽप्युच्चावचः प्राणभृद्वगों निस. र्गत एवानिष्टजिहासुरभीष्टेप्सुश्च भवतीत्यनुभवसाक्षिकमेतन्नात्र विवादः कस्यचिदपि दर्शनकारस्य । अभीष्टं चास्य सुखविशेष एव मोक्षापरपर्यायः । स च सुखविशेष
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 220