Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram

View full book text
Previous | Next

Page 8
________________ . [२] वाच्यवाचकयोरभेदेऽपि तयोः संबन्धः केवलं कल्पनावशाद्भासते नतु वास्तवः । परमार्थतस्तु अभेद एवेत्यर्थः । तत्र दृष्टान्तो यथा जीवात्मपरमात्मनोस्तिवाभेदेऽपि कल्पनावशाद्व्यावहारिकस्तयोः संबन्धोऽवमासते तद्वदित्युक्तम् । एवं चैतदर्शनमभेदवादीति स्पष्टमेवोक्तम् । एवमेव मीमांसादर्शनमपीति बोद्धव्यम् । तथा च दर्शनत्रयमभेदमवलम्बत इति स्पष्टमेवेति । तदन्यानि भेदवादीनि । - अभेदवादीन्येव श्रौतानीत्युच्यन्ते । भेदवादीनि च तार्किकाणीति । प्राधान्येन श्रुतितो मूलतत्त्वप्रतिपादकानि श्रौतानि । मुख्यतया तर्केण मूलतत्त्वान्वेषकाणि च तार्किकाणि । प्रकारान्तरेण पुनर्द्विविधानि । नास्तिकान्यास्तिकानि चेति । परलोकादिना. स्तित्वग्राहकाणि नास्तिकानि । परलोकाद्यस्तित्वग्राहीणि चाऽऽस्तिकानि । चार्वाकदर्शनं भेदचतुष्टययुतं बौद्धदर्शनमार्हतदर्शनं चेति नास्तिकदर्शनानि । तदन्यानि त्रयोदशाऽऽस्तिकदर्शनानि । अस्य च सर्वदर्शनसंग्रहनाम्नो निबन्धस्य प्रणेता सुगृहीतनामधेयः श्रीसायणमाधवाचार्य इति श्रीमत्सायणदुग्धाब्धिकौस्तुभेन महौनसा । क्रियते माधवार्येण सर्वदर्शनसंग्रहः ॥ इति ग्रन्थारम्भे स्वयमेवोक्तत्वान्निश्चीयते । अयं हि माधवाचार्यों दक्षिणदेशे तुङ्गभद्रानदीतीरे पम्पासरःसविधे संप्रति — गोवळकोंडा ' इति नाम्ना प्रसिद्धिं गते विजयनगरे वैदिकमार्गप्रवर्तकस्य स्वप्रतापमार्तण्डपारिशोषिताहितप्रस्रवणौघस्य वीरबुक्कनाम्नो मनुजेन्द्रस्य देवेन्द्रस्य बृहस्पतिरिव कुलगुरुमन्त्री निखिलराजकार्यधुरंधर आसीत् । तथा शाकीये त्रयोदशशतकोत्तरार्धे सायणवंशीयस्य यजुःशाखिनो मायणाचार्यस्य भार्यायां श्रीमत्यां प्रादुरासीदितीतिहासकोविदाः कथयन्ति । अनेन च राजकार्यधुरंधरेण जगतीतलवर्तिनिखिलविद्वत्प्रकाण्डमण्डलमण्डनायमानेन मन्त्रिप्रवरेण पूर्वस्मिन्वयसि वीरबुक्कभूपतेस्तत्पुत्रस्य हरिहराख्यस्य च प्रधानममात्य. पदमुररीकृत्य समीचीनतया राजकार्यभरं निर्वाह्योत्तरस्मिन्वयसि भगवत्पूज्यपादश्रीशंकराचार्याणां शारदापीठे शृङ्गवेर(शंगेरी)पुरे तत्कालवर्तिपीठाधिष्ठितश्रीशंकरानन्दगुरूणां सकाशाच्चतुर्थाश्रमं स्वीकृत्य तत्पट्टाधिकारः समग्राहि । तत आरम्यैव विद्यारण्य इति समाख्या प्रथिताऽभूत् । अयं चाऽऽद्यशंकराचार्यात्पड्विंशो विद्यारण्यभारतीति पर. म्परया तत्रत्यवक्तृमुखाच्छ्यते ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 220