Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
[५] ज्ञानैकसाध्यः । ज्ञानादेव तु कैवल्यमित्युक्तत्वात् । न हि ज्ञानेन सदृशं पवित्रामिह विद्यते, इति गीतासु भगवता ज्ञानमाहात्म्यातिशयस्योपगीतत्वाच्च । यद्यपि लोके यत्किचिदिष्टं वस्तु प्रयत्नसहस्रेणापि ज्ञानिनाऽपि न पार्यते संपादयितुं तत्प्रभूतैश्वर्यसंपन्नः कोऽपि द्रव्यबलादनायासेनैव संसाधयतीति ज्ञानापेक्षया द्रव्यस्यैवाधिकः प्रभावो लक्ष्यते तथाऽपि यस्य प्रभावात्सुदुर्लभमपि संपिपादयिषसि तद्र्व्यं बुद्धिप्रभावेणैव लभ्यं नान्येन केनापीति ज्ञानवैभवमेव सर्वोत्कर्षेण सर्वत्र विजयते । अत एव भ्रष्टराज्यैरपि त्रयोदशवर्षपर्यन्तं वनावनान्तरं परिभ्रमद्भिरपि पाण्डवैः केवलं भगवत्साहाय्येनैव करदीकृतसकलसामन्तमण्डलस्यैश्वर्यशिखरारूढस्य सार्वभौमचक्रवर्तिनोऽष्टादशाक्षौहिणीनायकस्य भ्रातृशतपरिवारितस्य दुर्योधनस्यापि राज्ञः पराजयः समपादि । द्रव्यं तु केवलं तादृशबुद्धौ साहाय्यकारि भवति न तु तस्य प्राधान्यमिति सर्वजनीनमेतत् । तच्च ज्ञानं तत्त्वविषयकमेव । तत्त्वं च तस्य वस्तुनो भावस्तत्त्वमिति व्युत्पत्त्या वस्तुनो मूलस्वरूपमु. च्यते । मूलस्वरूपज्ञानमेव हि मोक्षोपयोगि भवति । एवं च यस्य ज्ञानं मोक्षोपयोगि भवति तत्तत्त्वमिति सामान्यतस्तत्त्वलक्षणं पर्यवस्यति । तादृशतत्त्वज्ञानोपजीव्योऽभीष्टः सुखविशेषो हि तत्तद्दर्शनकारमतिवैचित्र्यात्प्रतिदर्शनं भिन्नः । तदनुसारेण चाभीष्यमाणसुखविशेषसाधीभूतज्ञानप्रयोजकतत्त्वान्यपि भिन्नान्येवेत्यर्थादर्शनानामपि भेदः सिध्यतीत्यतः संप्रति तेषां को वा विषयः कीदृशं च तस्य स्वरूपमित्यादि संक्षिप्य किंचिन्निरूप्यते । तत्र प्रथमोपस्थितस्योपेक्षानर्हत्वेन प्रथमतश्चार्वाकदर्शनमेवावलम्ब्यते
नास्तिकशिरोमणिना चार्वाकेण प्रतिपादितं दर्शनं चार्वाकदर्शनमित्युच्यते । यस्य मते यत्स्पर्शेन्द्रियेण मृदुकठोरशीतोष्णादयः स्पर्शा उपलभ्यन्ते, यद्रसनोन्द्रियेण कटुम्ल. मधुरादयो रसा अनुभूयन्ते, यद्घाणेन्द्रियेण मृगमदकुङमप्रमृतिसुरभिवस्तुपरिमलोद्गारा आघ्रीयन्ते, यच्चक्षुरिन्द्रियेणः घटपटस्तम्माम्भोरुहादयः पदार्थाः स्थावरजङ्गमाः परिचीयन्ते, यच्च श्रोत्रेन्द्रियेण तन्त्रीगीतादयः स्त्रीगीतादयश्च मधुरध्वनयः शोश्रूयन्ते तदेवैकं प्रत्यक्षं प्रमाणम् । अन्यदनुमानादिकं त्वप्रमाणमेव । अतो न परलोको न वेदोदितो धर्मो न पुण्यं न पापं नापिवाऽनुमानादिगम्यमीश्वरादिकमन्यत् । किंतु लोकप्रसिद्धो राजैव परमेश्वरः । देह एवाऽऽत्मा । मरणमेव मोक्षः। कान्तालिङ्गनादिजन्यं सुखमेव पुरुषार्थः । कण्टकादिव्यथाजन्यं दुःखमेव निरयः । तस्मात्खाद्याखाद्यादिविचारनिरपेक्ष यावच्छक्यं यथेच्छं सुख संपादनीयमिति निष्कर्षः । तदेतन्मतं श्रवणसमये मनोहरमपि परिणामेऽत्यन्तं भयावहत्वाच्छिष्टैविगर्हितत्वाच्चानुपादेयमेव । ___ बुद्धाख्यं देवमनुसरन्तो बौद्धास्तेषां दर्शनं बौद्धदर्शनम् । ते च बौद्धा माध्यमिक योगाचारसौत्रान्तिकवैभाषिकनामभि श्चतुर्विधाःप्रसिद्धाः । तथाहि भगवता बुद्धेन प्रथ
Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 220